SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:) ....... व्याख्यान [१] .......... मूलं [१] | गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक [१] गाथा 11-11 च, मझलमिति एकं अयं आचारः अपरं च मङ्गलं-मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह-यस्मा8 दिह परिकथितानि 'जिण'सि-जिनानां चरितानि १ 'गणहराइथेरावली'ति-गणधरादिस्थविरावली २'चरित्त'न्ति-सामाचारी ३ । तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथम श्रीवीरचरित्रं वर्णयन्तः श्रीभद्रबाहुस्वामिनो जघन्यमध्यमवाचनात्मकं प्रथम सूत्रं रचयन्ति| (तेणं कालेणं) तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, णकारः सर्वत्र वाक्यालङ्कारार्थः (तेणं समएणं) निर्विभाज्य: कालविभागः समयस्तस्मिन् समये (समणे भगवं महावीरेत्ति) श्रमणः-तपोनिरतः 'भगवं' ति-भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान्, यदाहु:-'भगोऽर्क १ ज्ञान २ माहात्म्य,३ यशो४ वैराग्य ५ मुक्तिषु ६। रूप ७ वीर्य ८ प्रयत्ने ९च्छा ,१. श्री ११ धमै १२ श्वर्य १३ योनिषु १४ ॥१॥' अत्र आन्त्यिौ अथौँ वर्जनीयौ, ननु अन्त्योऽर्थस्तु वर्ण्य एव, परं अर्कः कथंः वयं ?, सत्यं, उपमानतया अर्को भवति परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यों न लगतीति वर्जितः, 'महावीरे'त्ति कर्मवैरिपराभवसमर्थः, श्रीवर्धमानखामीत्यर्थः (पश्चहत्धुत्तरे होत्थत्ति) हस्तोत्तरा-उत्तराफाल्गुन्यः, गणनया ताभ्यो हस्तस्य उत्तरत्वात् , ताः पश्चसु स्थानेषु यस्य स पश्चहस्तोत्तरो भगवान् होत्य'त्ति अभवत् ॥ अथ षटूकल्याणकवादी आहननु ‘पञ्चहत्धुत्तरे साइणा परिनिव्वुडे' इति वचनेन महावीरस्य षटूकल्याणकत्वं संपन्नमेष, मैवं, एवं उच्यमाने 'पश्चउत्तरासादे अभीइछठे होस्थ' त्ति जम्बूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्थापि षट् कल्याणकानि वक्तव्यानि दीप अनुक्रम [१] JaMEduputational ... अत्र प्रथम सूत्र एव वर्तते किंतु बारसासूत्रस्य संपादने अस्य सूत्रस्य क्रमांकन '२' इति लिखितं ~42
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy