________________
कल्प
सूत्र
प्रत सूत्रांक
[३९]
गाथा
II-II
दीप
अनुक्रम
[३०२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [३९] / गाथा [-]
व्याख्यान [९] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
वा साक्षी भवति तदा स्थातुं कल्पते ( अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पर एगओ चिट्ठित्तए) अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने, एवं कल्पते एकत्र स्थातुं, ( एवं चैव निग्गंधीए अगारस्स य भाणियां ) एवमेव साध्याः गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा कारणाद्भवति, अन्यथा हि उत्सर्गतः साधुरात्मना द्वितीयः साध्ध्यस्तु व्यादयो विहरन्ति ॥ ( ३९ ) ॥
( वासावास पलोसवियाणं ) चतुर्मासक स्थितानां ( नो कप्पइ निग्गंथाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा (अपरिनएणं) मदर्थं त्वं मम योग्यमशनमानयेः इति अपरिज्ञप्तेन-अज्ञापितेन साधुना ( अपरिनयस्स अट्टाए असणं ४ जाव पडिगाहित्तए) अहं त्वद्योग्यं अन्नमानयिष्यामीति अपरिज्ञापितस्य | साधोः निमित्तं अशनादि ४ यावत् प्रतिग्रहीतुम् ॥ (४०) || अत्र शिष्यः पृच्छति - (से किमाह भंते !) तत् कुतो भदन्त इति पृष्ठे गुरुराह - ( इच्छा परो अपरिन्नए भुंजिला इच्छा परो न भुंजिजा ) इच्छा चेदस्ति तदा परोऽपरिज्ञापितः यदर्थं आनीतं स भुञ्जीत, इच्छा न चेत्तदा न भुञ्जीत, प्रत्युतैवं वदति-केनोक्तमासीत् यत्त्वया आनीतं, किं च- अनिच्छया दाक्षिण्यतश्चेद् भुङ्क्ते तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थण्डिलदौर्लभ्याद्दोषः स्यात्, तस्मात् पृष्ट्रा आनेयं ॥ ( ४१ ) ॥
(वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां च ( उदउल्लेण वा ससिणिद्वेण वा कारणं असणं वा ४ आहारितए) उदकाण- गलदू
For Private & Personal Use Only
392
अप रिक्त - शनाद्यशननिषेधः स्. ४०-४१
१०
१४