________________
कल्प
सूत्र
प्रत सूत्रांक
[१]
गाथा
II-II
दीप
अनुक्रम
[0]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [१] मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
च २ यत्र खाध्यायभूमिः सुलभा, अखाध्यायादिरहिता ३ पत्र भिक्षा व सुलभा ४, त्रयोदशगुणं उत्कृष्टं, ते चामी -'चिक्खिल्ल १ पाण २ थंडिल्ल, ३ बसही ४ गोरस ५ जणाउले ६ विज्जे ७॥ ओसह ८ निचया ९ हिवई १० पाडा ११ भिक्ख १२ सज्झाए १३ ॥ १ ॥ यत्र भूपान् कर्दमो न भवति १ यत्र बहवः संमूहिमाः प्राणिनो न भवन्ति २ यत्र स्थण्डिलं निर्दोषं भवति ३ यत्र वसतिः स्त्रीसंसर्गादिरहिता ४ यत्र गोरसं प्रचुरं ५ यत्र जनसमवायो महान् भद्रकश्च ६ यत्र वैद्यान भद्रकाः ७ यत्र औषधानि सुलभानि ८ यत्र गृहस्थगृहाः सकुडुम्बा धनधान्यादिपूर्णाश्च ९ यत्र राजा भद्रकः १० यत्र ब्राह्मणादिभ्यो मुनीनामेपमानं न स्यात् ११ यत्र भिक्षा सुलभा १२ पत्र स्वाध्यायः शुद्ध्यति १३ 'चउग्गुणोववेयं तु, वित्तं होइ जहन्नयं । तेरसगुणमुकोसं, दुहं मज्झमि मज्झिमयं ॥ १ ॥ पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच न्यूनं द्वादशगुणपर्यन्तं मध्यमं क्षेत्रं, एवं च उत्कृष्ट्रे क्षेत्रे तदप्राप्तौ मध्यमे तस्यापि अप्राप्तौ जघन्ये क्षेत्रे साम्प्रतं च गुर्वादिष्टे क्षेत्रे साधुभिः पर्युषणाकल्पः कर्तव्यः ॥
अयं च दशप्रकारोऽपि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयोषधवत् हितकारको भवति, तथाहिकेनचिद् भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारिताः, तत्र प्रथमो वैद्य आह मदीयं औषधं रोगसद्भावे रोगं हन्ति रोगाभावे च दोषं प्रकटयति, राज्ञोतं-सुप्तसपस्थापनतुल्येन १ चतुर्गुणोपेतं तु क्षेत्रं भवति जघन्यकं । त्रयोदशगुणमुत्कर्षं द्वयोर्मध्ये मध्यमकं ॥ १ ॥
For Private & Personal Use Only
36~