SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:) ....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक कल्प.सुयो- व्या०१ ॥४॥ कल्पभेदकारण १५ गाथा ||-II सुविसुज्झो सुहणुपालो अ॥१॥ उज्जुजडा पुरिमा, खलु नडाइनायाउ हुंति नायव्वा । वक्कजडा पुण चरिमा उजुपण्णा मज्झिमा भणिया ॥२॥] तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवयोघो दुर्लभो जडत्वात् , वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात्, अजितादिजिनतीर्थसाधूनां तु धर्मस्य अवयोधः पालनं च द्वयं अपि सुकरं, ऋजुप्राज्ञत्वात् , तेन आचारो द्विधा कृतः । अत्र च दृष्टान्ताः प्रदर्यन्तेयथा केचित् प्रथमजिनयतयो बहिभूमगुरुसमीपं आगताः पृष्टाश्च गुरुभि:-भो मुनयो भवतां इयती बेला का जाता?, तैरुक्तं-स्वामिन् ! वयं नटं नृत्यन्तं विलोकयितुं स्थिताः, ततो गुरुभिः कथितं-इदं नटविलोकनं साधूनां न कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगतास्तथैव गुरुभिः पृष्टाः प्रोचुः-प्रभो ! वयं नटी नृत्यन्तीं निरीक्षितुं स्थिताः,तदा गुरुभिरूचे भो महाभागास्तदानीं भवतां नटो निषिद्धो नटे निषिद्धे च नटी सुतरां निषिद्वैव, ततस्तैर्विज्ञप्त-स्वामिन् ! इदं अस्माभिने ज्ञातं अथैवं न करिष्यामः, अत्र च जडत्वान्नटे निषिद्धे नटी निषिद्धैवेति तैनं ज्ञातं, ऋजुत्वाच सरलं उत्तरं दत्तं इति प्रथमः। अत्र द्वितीयोऽपि दृष्टान्त:--यथा कोऽपि कुङ्कुणदेशीयो वणिग वृद्धत्वे प्रव्रजिता, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो गुरुभिः पृष्टः-एतावद्दीघे कार्योत्सर्गे किं चिन्तितं ?, स प्रत्युवाच-खामिन् ! जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्ट आह-पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिपूदनपूर्वकं उप्तानि धान्यानि बहून्यभूवन , इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धान्याभवनेन वराकाः कथं दीप अनुक्रम X ॥ ४ ॥ Fur & Fonte 158janelbrary.org ... अत्र प्रथम-अंतिम तथा मध्यवर्ती तीर्थकराणां कल्प-भेदस्य कारणानि निर्दिश्यते । ~33
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy