SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२१२] गाथा ||3..|| दीप अनुक्रम [२०७] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः) मूलं [२१२] / गाथा [२...] व्याख्यान [७] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः: कल्प. सुबो च्या० ७ ॥१५२॥ ---------- ---------. ततस्तौ कृतकृत्यां खपित्रोर्भरतस्य च तं व्यतिकरं निवेद्य दक्षिणश्रेण्यां नमिः, उत्तरश्रेण्यां विनभिश्च तस्यतुः ॥ भगवांश्रान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनैर्वस्त्राभरण कन्या दिभिर्निमन्त्रयमाणोऽपि योग्यां भिक्षां अलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः, तत्र च आवश्यकवृत्यनुसारेण बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः, स च मया श्यामवर्णी मेरुरंमृतकलशेनाभिषिक्तोऽतीय शोभितवानिति स्वमं दृष्टवान्, सुबुद्धिनामा नगर श्रेष्ठी, सूर्यमण्डलात् स्रस्तं किरणसहस्रं पुनः श्रेयांसेन तत्र योजितं ततस्तदंतीवांशोभत इति स्वममैक्षत, राजाऽपि खझे महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससहायाज्जयी जात इति ददर्श, श्रयोऽपि प्राप्ताः सभायां सम्भूय स्वप्नान् परस्परं न्यवेदयन् ततो राज्ञा कोऽपि श्रेयांसस्य महान् लाभो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि खभवने गत्वा गवाक्षस्यः स्वामी न किञ्चिल्लातीति जनकोलाहलं श्रुत्वा खामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो अहं पूर्वभवे भगवतः सारथिर्भगवता सह दीक्षां गृहीतवान्, तदा च वज्रसेनजिनेन कथितमासीद् यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति स एष भगवान्, तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमूहप्राभृतमौदाय आगतः, ततोऽसौ तत्कुम्भमादाय भगवन् ! गृहाणेमां योग्यां भिक्षामिति जगाद, भगवताऽपि पाणी प्रसारितौ निसृष्टश्च तेन सर्वोऽपि रसः, न चात्र विन्दुरप्यधः पतति किन्तूंपरि शिखा वर्द्धते यतः - For Private & Personal Use Only 329 दानख श्रे यांसोपज्ञता २० २५ ॥१५२॥ २७
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy