________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं २१२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
मिविनम्योर्विद्या
धरत्वम्
सूत्रांक २१२] गाथा ||२..||
ecececenesseneededesesesese
भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चकुः, तो अपि ऊचतु:-यत्न वयमपि आहारविधि न जानीमा, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतलजया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं एवं ध्यायन्तो गङ्गातटे परिशटितपत्राद्युपभोगिनोंऽसंस्कृतकेशकूर्चा जटिलास्तापसा जज्ञिरे ॥
इतश्च कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिचिनमिनामानी देशान्तरादागती, भरतेन दीयISIमानं राज्यभागं अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो
भूमिसिश्चनं.जानुप्रमाणं कुसुमोचयं च कृत्वा पञ्चाङ्गप्रणामपूर्वकं राज्यभागप्रदो भवेति प्रत्यहं विज्ञपयन्तौ जिनं, सिषेवतुः,तो चान्यदातथा वीक्ष्य वन्दनार्थमांगतो धरणेन्द्रो भगवद्भत्त्या सन्तुष्टोऽवादीत्-भो! भगवान् निःसङ्गो मा भगवन्तं याचेथां, भगवद्भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्ख्याका (४८०००) विद्याः तत्र गौरी-गान्धारी-रोहिणी-प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान्, यच्चोक्तं किरणावलीकारेण 'अष्टचत्वारिंशत्सङ्ख्याका (४८) इति' तयुक्तं, आवश्यकवृत्ती अष्टचत्वारिंशत्सहस्राणां (४८०००) उक्तत्वात् ,अथ विद्या दत्त्वा उक्तवांश्च इमाभिर्विद्याधरद्धिप्राप्ती सन्तौ खजनं जनपदं च गृहीत्वा यातंयुवां वताये नगे दक्षिणविद्याधरश्रेण्यां गौरेयगान्धारप्रमुखानष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि पश्चाशनगराणि, उत्तरश्रेण्यां च पण्डकवंशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्टिनगराणि निवास्य विहरतमिति,
दीप अनुक्रम [२०७]
१४
~328