________________
कल्प
सूत्र
प्रत
सूत्रांक
[२१०]
गाथा
||..||
दीप
अनुक्रम [२०५]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
मूलं [२१०] / गाथा [२...]
व्याख्यान [७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
---------.
एवमाहिज्जंति) तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा) तद्यथा (उसने इ वा १ पढमराया इ वा २) ऋषभ इति वा १ प्रथमराजा इति वा २ (पढमभिक्खायरे इ वा ३) प्रथमभिक्षाचर इति वा ३ ( पढमजिणे इ वा ४ ) प्रथमजिन इति वा ४ ( पढमतित्थंकरे इ वा ५) प्रथमतीर्थङ्कर इति वा ५, तत्र इकारः सर्वत्र वाक्यालङ्कारे, प्रथमराजा स चैवं -- कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्परं विवदमानानां युगलिकानां | दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकर कालेऽल्पापराघित्वेन हकाररूपैचाभूत्, यशखिनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हक्काररूपा महति च अपराधे मकाररूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्यमोत्कृष्टापराधेषु क्रमेण हकारमकारधिकाररूपा दण्डनीतयोऽभूवन, एवमपि नीत्यतिक्रमेण ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय युगलिभिर्भगवन्निवेदने कृते खाम्याह- 'नीतिमतिक्रमतां दण्डं सर्वं राजा करोति स चाभिषिक्तोऽमात्यादिपरिवृतो भवति' एवं उक्ते तैरूचे - अस्माकं अपि ईदृशो राजा भवतु, खाम्याह- पाचवं नाभिकु लकरं राजानं, तैर्याचितो नाभिः -'भो भवतां ऋषभ एव राजा' इत्युक्तवान्, ततस्ते राज्याभिषेक निमित्तमुदका - नयनाय सरः प्रति गतवन्तः, तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रि यापुरस्सरं भगवन्तं राज्येऽभिषिञ्चति स्म, युगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कृतं भगवन्तं निरीक्ष्य विस्मिताः क्षणं विचार्य भगवतः पादयोर्जलं प्रक्षिप्तवन्तः तच दृष्ट्वा तुष्टः शक्रोऽचिन्तयत्-अहो विनीता एते पुरुषा इति वैश्रमणं आज्ञापितवान् यदिह द्वादशयोजनविस्तीर्णा नवयोजनविष्कम्भां विनीतां नाम्नीं नगरीं
For Private & Personal Use Only
320~
प्रथमेनृपत्वं नगरी निवे शनम्
५
१०
१४