SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२१०] गाथा ॥२..॥ दीप अनुक्रम [२०५] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:) मूलं [२१०] / गाथा [२...] व्याख्यान [७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः: ---------- ---------. व्या० ७ ॥ १४७॥ कल्प, सुबो- अवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्काहार भोजिनः, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफ-वंशस्थापन लान्याखादितवान्, अथ सञ्जाते किञ्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति महतीं इक्षुयष्टिं आदाय नाभिकुलकरांङ्कस्यस्य प्रभोरंग्रे तस्थौ दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन स्वामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात् खामिनो वंश इक्ष्वाकुनामा भवतु, गोत्रं अपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथ किञ्चिद्युगलं मातृपितृभ्यां तालवृक्षाघो मुक्तं, तस्मात्पतता तालफलेन पुरुषो व्यापादितः, प्रथमोऽयं अकालमृत्युः, अथ सा कन्या मातापित्रोः खर्गतयोः एकाकिन्येव वने चचार, दृष्ट्वा च तां सुन्दरीं युगलिकनरा नाभिकुलकराय न्यवेदयन्, नाभिरपि शिष्टयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनं अनुप्राप्तः, इन्द्रोऽपि प्रथमजिन| विवाहकृत्यं अस्माकं जीतमिति अनेक देवदेवीकोटिपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान्, वधूकृत्यं च द्वयोरपि कन्ययोर्देव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः षलक्षपूर्वेषु गतेषु भरतब्राह्मीरूपं युगलं सुभङ्गला, बाहुबलिसुन्दरीरूपं युगलं च सुनन्दा प्रसुषुवे तदनु चैकोनपंचाशत् पुत्रयुगलानि क्रमात् सुमंगला प्रसूतवती।' (उसमे णं अरहा कोसलिए कासवगुत्तेणं) ऋषभः अर्हन् कौशलिकः काश्यपगोत्रीयः (तस्स णं पंच नामधिजा For Frate & Personal Use Only 319 सुनन्दा ग्रहादि २० २५ ॥ १४७॥ २८ janelibrary.org
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy