SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ...... व्याख्यान [७] .......... मूलं [१७४] / गाथा २...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक [१७४] गाथा ||२..|| कल्प.सुबो-(तस्स णं आसोयबहुलस्स पन्नरसीपक्खेणं) तस्य आश्विनबहुलस्य पश्चदशे दिवसे (दिवसस्स पछिछमेश्रीनेमिराव्या०७ भाए ) दिवसस्य पश्चिमे भागे (उर्जितसेलसिहरे वेडसस्स पायवस्स अहे) उजयन्तनामशैलस्य शिखरे जीपूर्वेभवाः वेतसनामवृक्षस्य अधस्तात् (अट्ठमणं भत्तेणं अपाणएणं ) अष्टमेन भक्तेन अपानकेन-जलरहितेन (चित्ताहिं ॥१३८॥ नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोग उपागते सति (झार्णतरियाए वहमाणस्स ) शुक्लध्या-19 नस्य मध्यभागे वर्तमानस्य प्रभोः (अणंते जाच जाणमाणे पासमाणे विहरइ) अनन्तं केवलज्ञानं समुत्पन्न यावत् सर्वभाषान जानन पश्यंश्च विहरति,तत्र केवलज्ञानं रैवतकस्थे सहस्राम्रवणे समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत् , विष्णुरपि महर्या भगवन्तं वन्दितुमाययो, राजीमत्यपि तत्रागता, अथ प्रभोर्देशनां | निशम्य वरदत्तनृपः सहस्रद्वयनुपयुतो व्रतमाददे, हरिणा च राजीमत्याः स्नेहकारणे पृष्टे प्रभुर्धनवतीभवा दारभ्य तया सह खस्य नवभवसम्बन्धमाचष्टे, तथाहि-प्रथमे भवेऽहं धननामा राजपुत्रस्तदेयं धनवतीनाम्नी शमत्पत्नी अभूत् १ ततो द्वितीये भवे प्रथमे देवलोके आवां देवदेव्यो २ ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरस्तदेयं रत्नवती मत्पत्नी ३ ततश्चतुर्थे भवे चतुर्थे कल्पे द्वावपि देवी ४ पञ्चमे भवेऽहं अपराजितराजा २५ एषा प्रियतमा राज्ञी ५ षष्ठे एकादशे कल्पे द्वावपि देवौ ६ सप्तमेऽहं शङ्खो नाम राजा, एषा तु यशोमती ॥१३८॥ राज्ञी ७ अष्टमे अपराजिते द्वावपि देवौ ८ नवमेऽहं एषा राजीमती ९ततः प्रभुरन्यत्र विहृत्य क्रमात्पुनरपि रेवतके समवासरत्, तदा च अनेकराजकन्यापरिवृता राजीमती रथनेमिश्च प्रभुपाचे दीक्षां जगृहतु:, अन्यदा दीप अनुक्रम [१७५] - 301
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy