SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ...... व्याख्यान [७] .......... मूलं [१५८] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत चिः. सूत्रांक [१५८] गाथा ||२..|| तत्र देवोपसर्गः कमठसम्बन्धी, स चैवं-खामी प्रव्रज्यैकदा विहरन् तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि | केवलोत्पप्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चिकादिभिरभीतं प्रभु निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान विकुळ कल्पान्तमेघवर्षितुं आरेभे, विद्युतश्च|| अतिरौद्राकारा दिशि दिशि प्रस्ताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं अकरोत्, क्षणादेव च प्रभुनासाग्रं यावजले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः समं आगत्य फणैः प्रभुं आच्छादितवान् , अवधिना च विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हक्कितः प्रभु शरणीकृत्य खस्थानं ययौ, धरणेन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय खस्थानं ययौ, एवं देवादिकृतानुपसर्गान् सम्यक् सहते ॥ (१५८)॥ | (तए णं से पासे भगवं अणगारे जाए) ततः स पावो भगवान् अनगारो जातः (इरियासमिए जाव: | अप्पाणं भावेमाणस्स) ईर्यायां समितः यावत् आत्मानं भावयतः (तेसीई राइंदियाई विश्कताई) यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राइंदियस्स अंतरा बढमाणस्स) चतुरशीतितमस्य । हा अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य बहुलपक्षा-कृष्णपक्षः (तस्स णं चित्तबहुलस्स)तस्य चैत्रबहुलस्य चतुर्थी दिवसे (पुषणहकालसमयंसि) पूर्वाहकालसमये-प्रथमपहरे(धायइपायवस्स अहे) धातकीनामवृक्षस्य अधः | (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन-जलरहितेन (बिसाहाहिं नक्खत्तेणं जोगमुवागएणं) दीप अनुक्रम [१६०] For F lutelu ~284
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy