SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१] गाथा II-II दीप अनुक्रम [-] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [१] मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः: टवइ सव्वजिणखंधे । वीरस्स वरिसमहिअं. सयावि सेसाण तस्स ठिई' ॥ १ ॥ इति सप्ततिशतस्थानकवचनाच्चेति ज्ञेयं । साधून आश्रित्य च अजितादिद्वाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्र परिभो गानुज्ञासद्भावेन सचेलकत्वमेव केषाञ्चिच श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इत्यंनियतस्तेषामयं कल्पः, श्री ऋषभवी रतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेत जीर्णप्राय वस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्रपरिभोगे सत्यपि कथं अचेलकत्वं इति चेद्, उच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि कृतपोतिका नदीमुत्तरन्तो वदन्ति अस्माभिर्मनीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादींश्व वदन्ति शीघ्रं अस्माकं वस्त्रं देहि वयं नग्नाः स्म इति, एवं साधूनां वस्त्रसङ्गावेऽपि अचेलकत्वं इति प्रथमः १ ॥ तथा 'उद्देसि 'ति औदेशिक आधाकर्मिकं इत्यर्थः साधुनिमित्तं कृतं अशनपानखादिमखादिमवस्त्रपात्र वसतिप्रमुखं तच प्रथमचरमजिनतीर्थे एक साधु एकं साधुसमुदाय एवं उपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां साध्वादीनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्पयं, अन्येषां तु कल्पते इति द्वितीयः २ ॥ तथा 'सिजायर'ति शय्यातरो वसतिस्वामी तस्य पिण्ड: अशन १ पान २ खादिम ३ खादिम ४ वस्त्र ५पात्र ६ कम्बल ७ रजोहरण ८ सूची ९ पिष्पलक १० नखरदन १९ कर्णशोधनक १२ लक्षणो द्वादशप्रकारः १ पात्रलेपवत् संयमशुद्ध वर्णपरावर्त्तोऽधुना । For Prate & Personal Use Only ~28~ १०
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy