________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२१]
गाथा
॥२..॥
दीप
अनुक्रम
[१२६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [१२१] / गाथा [२...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
निर्वाणविषय सन्देहसंयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥ १ ॥ यतः'जरामर्यं वा यदग्निहोत्रं' अनेन पदेन निर्वाणाभावः प्रतीयते, कथं?, यत् अग्निहोत्रं तत् जराम, कोऽर्थः ? - सर्वदा कर्त्तव्यं, अत्र अग्निहोत्रस्य सर्वदा कर्त्तव्यता उक्ता, अग्निहोत्रक्रिया च निर्वाणकारणं न भवति, शबलत्वात् केषाञ्चिदूधकारणं केषाञ्चिदुपकारकारणं इति, ततो मोक्षसाधर्कानुष्ठानक्रियाकालस्य अनुक्तत्वा|न्मोक्षो नास्ति इति मोक्षाभावः प्रतीयते, तथा 'द्वे ब्रह्मणी वेदितव्ये, परम्परं च तत्र परं सत्यज्ञानं, अनन्तरं ब्रह्मेति' इत्यादिपदैमोक्षसत्ता प्रतीयते इति तव सन्देहः, परं अविचारितं एतत् यस्मात् 'जराम वा यदग्निहोत्रं ' इत्यत्र वाशब्दोऽप्यर्थे स च भिन्नक्रमः, तथा च जराम यावत् अग्निहोत्रं अपि कुर्यात्, कोऽर्थः ?कश्चित्स्वर्गाद्यर्थी यावज्जीवं अग्निहोत्रं कुर्यात्, कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाण साधकानुष्ठान मॅपि कुर्यात्, न तु नियमतोऽग्निहोत्र मेवेत्यपिशब्दार्थः, ततो निर्वाणसाधकानुष्ठानकालोऽप्युक्त एव, तस्मादस्ति निर्वाणं, इत्येकादशः गणधरः ११ ॥
एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजिताः, तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्ग: चतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च तत्र द्वादशाङ्गीरचनानन्तरं भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च | दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनखामिनः सन्निहितो भवति, ततः खामी रत्नमयसिंहासनादुस्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदेवनता अनुक्रमेण तिष्ठन्ति,
For Private & Personal Use Only
260~
एकादशो गणघर:
५
१०
१४