SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१२१] गाथा ||..|| दीप अनुक्रम [१२६] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:) व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः: कल्प. सुबो व्या० ६ ॥११७॥ ---------- यत एते त्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे ' मायोपमान् ' इत्युक्तं तद्देवानां अपि अनित्यत्वसूचकं इति सप्तमः गणधरः ७ ॥ अथ नारकसन्देहात्, सन्दिग्धर्मकम्पितं विबुधमुख्यम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि १ ॥ १ ॥ यस्मात् ' न ह वै प्रेत्य नरके नारकाः सन्ति ' इत्यादिपदैर्नारिकाभावः प्रतीयते, 'नारको वै एष जायते यः शूत्रान्नमश्नाति ' इत्यादिपदैस्तु नारकसत्ता प्रतीयते इति तब सन्देहः, परं 'नह वै प्रेत्य नरके नारकाः सन्ति' इति कोऽर्थः ?-प्रेत्य-परलोके केचिन्नारका मेर्वादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमाचरति स नारको भवति, अथवा नारका मृत्वाऽनन्तरं नारकतया नोत्पद्यन्ते इति प्रेत्य नारका न सन्तीत्युच्यते, इति अष्टमो गणधरः ८ अथ पुण्ये संदिग्धं द्विजमचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्वं वेदार्थ किं न भावयसि ? ॥ १ ॥ तब सन्देहकारणं तावत् अग्निभूत्युक्तं ' पुरुष एवेदं निं सर्व' इत्यादि पदं, तत्र उत्तरं अपि तथैव ज्ञेयं, तथा 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा' इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्व इति नवमः गणधरः ९ ॥ अथ परभवसन्दिग्धं, मेतार्य नाम पण्डितप्रवरम् । ऊचे विभुर्पथार्थं, वेदार्थं किं न भावयसि १ ॥ १ ॥ यत्तव इन्द्रभूत्युक्तैः 'विज्ञानघन एवैतेभ्यो भूतेभ्यः' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थं अस्मदुक्तप्रकारेण विभावय यथा सन्देहो निवर्त्तते इति दशमः गणधरः १० ॥ For Private & Personal Use Only 259 अष्टमनवम दशमा गणधराः २० २५ ॥११७॥ २८ Vanelibrary.org
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy