SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:) ...... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत षष्ठसप्तमी गणधरौ सूत्रांक [१२१] गाथा ||२..|| कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बध्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि न तु मनुष्यो मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति?, न हि शालीबीजाद्गोधूमाङ्कुरः सम्भवतीति या तव चित्ते युक्तिः प्रतिभाति साऽपि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात कार्यवैसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधरः५ | अथ बन्धमोक्षविषये,सन्दिग्धं मण्डिताभिधं विवुधम् । ऊचे विभुर्यथास्थं ,वेदार्थ किं न भावयसि ?॥१॥ यत:स एष विगुणो विभुने बयते संसरति वा मुच्यते मोचयति वा त्वं तावत् एतेषां पदानां अर्थ एवं| करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो?-विगुणः-सत्त्वादिगुणरहितो, विभुः-सर्वव्यापको,न बढ्यते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाभावात्, नाप्यन्यं मोचयति अकर्तृकत्वात् , परं नायं अर्थः समर्थः, किन्तु स एष आत्मा, किंविशिष्टो?चिगुणो-विगतच्छानस्थिकगुणः, पुनः कीदृशो-विभु:-केवलज्ञानवान् केवलज्ञानखरूपेण विश्वव्यापकत्वात्, एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधरः ६॥ | अथ देवविषयसन्देहसंयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं , वेदार्थ किं न भावयसि ॥१॥ यतः को जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुवेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, ' स एष यज्ञा-1 युधी यजमानोऽक्षसा सर्लोकं गच्छति' इति पदैस्तु देवसत्ता प्रतीयते इति तव सन्देहः, परं अविचारितं एतत् , दीप अनुक्रम [१२६] Fur & Fonte ~258
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy