________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [६] ........ मूलं [१२१] । गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
प्रथम गणधर:
सूत्रांक [१२१] गाथा ||२..||
स्याबालगोपालं, प्रच्छन्नः किं दिवाकरः ॥२४॥ प्रकाशयति गुप्तं चेत्, संदेहं मे मनःस्थितम् । तदा जानामि सर्वज्ञमन्यथा तु न किंचन ॥२५॥ चिंतयंतमिति प्रोचे, प्रभुः को जीवसंशयः । विभावयसि नो वेदपदार्थ || शृणु तान्यध ॥ २६ ॥ समुद्रो मध्यमानः किं ?, गंगापूरोऽथवा किमु । आदिब्रह्मध्वनिः किं वा ?, वीरवेदध्व-II निर्वभौ ॥ २७ ॥ वेदपदानि च-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्यसंज्ञा|स्ती ति, त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् विज्ञानघनो-गमनागमनादिचेष्टावान् आत्मा एतेभ्यो भूतेभ्यः-पृथिव्यप्तेजोवाय्वाकाशेभ्यः, समुत्थाय-प्रकटीभूय मांगेपु मदशक्तिरिव, ततस्तानि-भूता-|| न्येव अनु विनश्यति-तत्रैव विलयं याति जले बुबुद इव, ततो भूतांतिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसंज्ञास्ति-मृत्वा पुनर्जन्म नास्तीति, परं अयुक्तोऽयमर्थः, शृणु तावदेतेषां अर्थ-विज्ञानघन इति कोऽर्थ:-विज्ञानघनो-ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघना, प्रतिप्रदेश अनंतज्ञानपर्यायात्मक-|| स्वात् , स च विज्ञानघन:-उपयोगात्मक आत्मा, कथंचिद्भूतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते-उत्प-| यते इत्यर्थः, घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादिवस्तुसापेक्षखात्, एवं च एतेभ्यो भूतेभ्यो-घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय-समुत्पद्य तान्येव अनु विनश्यति, कोऽर्थः तस्मिन् घटादी वस्तुनि नष्टे व्यवहिते वा.जीवोऽपि तदुपयोगरूपतया नइपति,अन्यो-IN पयोगरूपतया उत्पद्यते.सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञास्ति, कोर्थः?-न प्राक्तनी घटाधु
दीप अनुक्रम [१२६]
For
F
lutelu
~254