________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२१]
गाथा
॥२..॥
दीप
अनुक्रम [१२६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [६] ..........
मूलं [१२१] / गाथा [२...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प- सुबो
पा० ६
॥ १११ ॥
----------
रणे ) समस्तावरणरहिते (कसिणे ) समस्ते ( पडिपुणे ) सर्वावयवोपेते ( केबलवरनाणदंसणे समुप्पने ) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने । (१२० ) ॥
(तए णं समणे भगवं महावीरे ) ततो ज्ञानोत्पश्यनन्तरं श्रमणो भगवान् महावीरः ( अरहा जाए ) अर्हन् जात:- अशोकादिप्रातिहार्यपूजायोग्यो जातः पुनः कीदृश: ? ( जिणे केवली सङ्घन्नू सङ्घदरिसी ) जिनो-रागद्वेषजेता केवली सर्वज्ञ सर्वदर्शी ( सदेवमणुआसुरस्त लोगस्स ) देवमनुर्जासुरसहितस्य लोकस्य (परियायं जाणइ पासह) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च-साक्षात् करोति, तर्हि किं देवमनुजासुराणां एव पर्याय मात्रं एव जानातीत्याह (सबलोए सङ्घजीवाणं ) सर्वलोके सर्वजीवानां (आगई गई ठिई चवणं उववायं ) आगतिं भवान्तरात्, गतिं च भवान्तरे, स्थिति-तद्भवत्कं आयुः, कायस्थितिं वा च्यवनं देवलोकान्तिर्यग्नरेषु अवतरणं, उपपातो देवलोके नरकेषु वोत्पत्तिः (तक्कं मणो ) तेषां सर्वजीवानां सम्बन्धि तत्कं ईदृशं यन्मनः ( माणसियं ) मानसिकं - मनसि चिन्तितं ( भुत्तं ) भुक्तं, अशनफलादि (कर्ड) कृतं, चौर्यादि ( पडिसेवियं ) प्रतिसेवितं मैथुनादि ( आविकम् ) आविः कर्म-प्रकटकृतं (रहोकम्मं ) रहः कर्म-प्रच्छन्नं कृतं एतत् सर्वं सर्वजीवानां भगवान् जानातीति योजना, पुनः किंवि० प्रभुः ? ( अरहा) न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात्, अरहा: (अरहस्तभागी )
For Prate & Personal Use Only
~247~
केवलज्ञान
फलम् सू. १२१
२०
॥१११॥ २५