SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११८] गाथा || 8,3|| दीप अनुक्रम [१२० १२२] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः कल्प. सुबो व्या० ६ ॥१०८॥ स्नेहेन न लीप्यते इत्यर्थः, तथा (संखो इव निरंजणे) शङ्ख इव निरञ्जनो, रञ्जनं - रागाद्युपरञ्जनं तेन शून्यत्वात् (जीवे इव अप्प डिहगई ) जीव इव अप्रतिहतगतिः, सर्वत्रास्खलितविहारित्वात् ( गगणमिव निरालंबणे ) गगनमिव निरालम्बनः कस्याप्यधारस्य अनपेक्षणात् (वाउन अपडिवद्वे) वायुरिव अप्रतिबद्धः, एकस्मिन् स्थाने कार्यवस्थानाभावात् (सारयसलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः कालुष्याकलङ्कितत्वात् (पुक्खरपत्तं व निरूवलेवे ) पुष्करपत्रं - कमलपत्रं तद्वन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुन्तिंदिए ) कूर्म इव गुप्तेन्द्रियः (स्वग्गिविसाणं व एगजाए) खनिविपाणमिव एकजातः, यथा स्वनिः श्वापदविशेषस्य विषाणं शृङ्गं एकं भवति तथा भगवानपि, रागादिना सहायेन व रहितत्वात् (विहग इव विप्पमुक्के ) विहग इव विप्रमुक्तः, मुक्तपरिकरत्वात् अनियत निवासाच (भारंडपक्खीव अप्पमन्ते ) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं, यतः - एकोदराः | पृथग्ग्रीवास्त्रिपदा मर्त्यभाषिणः । भारण्डपक्षिणस्तेषां मृतिर्भिन्नफलेच्छया ॥ १ ॥ ते चात्यन्तं अप्रमत्ता एव जीवन्तीति तदुपमा (कुंजरो इव सोंडीरे ) कुञ्जर इव शौण्डीर, कर्मशत्रून् प्रति शूरः ( वस्त्रभो इव जायथामे ) वृषभ इव जातस्थामा जातपराक्रमः, स्वीकृत महाव्रतभारोद्वहनं प्रति समर्थत्वात् ( सिंहो इव दुद्धरिसे) सिंह इव दुर्द्धर्षः, परीषहादिश्वापदैरजय्यत्वात् (मंदरी इव अप्पकंपे ) मन्दर इव - मेरुरिव अप्रकम्पः, | उपसर्गवातैः अचलितत्वात् (सागरो इव गंभीरे ) सागर इव गम्भीरः, हर्षविषादादिकारणसद्भावेऽपि अवि Porate & Personal Use Only 241 वीरस्य साधुत्वे वर्णनं. १५ २० २५ ॥१०८॥
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy