________________
कल्प
सूत्र
प्रत
सूत्रांक
[११८]
गाथा
||3,3||
दीप
अनुक्रम
[१२०
१२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
CREDERERED
सिंघाणजल्लपारिहाणियासमिए) उच्चार:- पुरीषं प्रश्रवणं-सूत्रं खेलो- निष्ठीवनं सिङ्घानो-नासिकानिर्गतं श्लेष्म, जल्लो- देहमलः एतेषां यत् परिष्ठापनं त्यागस्तत्र समितः - सावधानः, शुद्धस्थण्डिले परिष्ठापनात्, एतच अन्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डनार्थमित्थं उक्तं एवं (मणसमिए ) मनसः सम्यक प्रवर्त्तकः ( वयसमिए) वचसः सम्यक प्रवर्त्तकः ( कायसमिए) कायस्य सम्यक प्रवर्त्तकः (मणगुप्ते) अशुभपरिणामान्निवर्त्तकत्वात् मनसि गुप्तः (वयगुत्ते ) एवं वचसि गुप्तः ( कायगुत्ते ) काये गुप्तः ( गुत्ते गुतिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य स गुप्तेन्द्रियः (गुत्तभयारी ) गुप्तं - वसत्यादिन ववृत्तिविराजितं एवंविधं ब्रह्मचर्यं चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोने) क्रोधरहितः मानरहितः मायारहितः लोभरहितः (संते ) शान्तोऽन्तर्वृत्या ( पसंते ) प्रशान्तो बहिर्वृत्त्या ( उवसंते) उपशान्तः-अ अन्तर्बहिश्वोभयतः शान्तः, अत एव (परिनिन्दुडे ) परिनिर्वृतः - सर्वसन्तापवर्जितः ( अगासवे ) अनाश्रवःपापकर्मबन्धरहितः हिंसायाश्रवद्वारविरतेः (अममे ) ममत्वरहितः (अकिंचणे ) अकिञ्चनः किञ्चनं द्रव्यादि तेन रहितः (छिनगंधे ) छिन्नः त्यक्तो हिरण्यादिग्रन्थो येन स तथा ( निरुवलेवे ) निरुपलेपो द्रव्यभावमलापगमेन, तत्र द्रव्यमलः शरीरसम्भवो भावमलः कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तैर्हदयति - ( कंसपाइय मुकतोए) कांस्यपात्रीव मुक्तं तोयमिव तोयं स्नेहो येन स तथा, यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् १ साधिकमासाधिकाद् वर्षादूर्ध्वं वस्त्राद्यभावेऽपि करचरणादिपरावर्त्ते चतुर्थ्याः स्थण्डिलादिभावे चान्त्यायाः समितेः सद्भावः
For Frate & Personal Use Only
240
वीरस्य साधुत्वे वर्णनं
५
१०
१३