SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११८] गाथा ||8,3|| दीप अनुक्रम [१२० १२२] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः कल्प. सुबो व्या० ६ ॥१०६ ॥ आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया खभर्त्तारं अनुजग्मुः । ततः खामिनमालम्भिकायां हरिकान्तः, श्वेताम्बिकायां हरिस्सहश्व विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ ततः श्राव स्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् ततो महती महिमप्रवृत्तिः, ततः कौशाम्यां चन्द्रसूर्यावतरणं, वाणारस्यां शक्रो राजगृहे ईशानो मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रो ( ११ ) ऽभूत्, तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोत्पातः । ततः क्रमेण कौशाम्यां गतस्तत्र शतानीको राजा मृगावती देवी विजया प्रतिहारी वादीनामा धर्मपाठक सुगुप्तोऽमात्यस्तद्भार्या नन्दा सा च श्राविका मृगावत्याः वयस्या, तत्र प्रभुणा पोषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा-द्रव्यतः कुल्माषान् सूर्यकोणस्थान्, क्षेत्रतः एकं पादं देहल्या अन्तः एक पादं बहिश्च कृत्वा स्थिता, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो राजसुता दासत्वं प्राप्ता मुण्डितमस्तका निग|डितचरणा रुदती अष्टमभक्तिका चेद्दास्यति तदा गृहीष्यामि इत्यभिगृह्य प्रत्यहं भिक्षायै भ्राम्यति, अमात्यादयोऽनेकानुपायान् कुर्वन्ति न त्वंभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा भग्ना, तत्र च दधिवाहनभूपभार्या धारिणी तत्पुत्री च वसुमती द्वे अपि केनचित् पदातिना बन्दितया गृहीते, तत्र च धारिणी त्वां भार्या करिष्यामीति पत्तिवार्त्तया जिह्वाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्ब्यां आनीय चतुरूपथे विक्रेतुं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया For Private & Personal Use Only •••• भगवंत महावीरेण कृत विशिष्ट अभिग्रहः एवं चन्दनबालायाः कथानकं ~237~ एकादशी चतुर्मासी सातप्रश्नो ऽभिग्रहब १५ २० २५ ॥१०६ ॥ २७
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy