SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:) ...... व्याख्यान [५] .......... मूलं [११३] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक [११३] गाथा एवं संवच्छरे दिन्नं ॥१॥ तथा च कवयः-तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानला:, सधः सजितवाजिरा-दीक्षाभिषेजिवसनालद्वारदुर्लक्ष्यभाः । सम्प्राप्ताः खगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽगनाः, खामिन् ! पिङ्गजनैर्निरुद्धह-काम.११३ सितैः के यूयमित्यूचिरे ॥१॥ एवं च दानं दत्त्वा पुनर्भगवता नन्दिवर्धनः पृष्टः-राजंस्तव सत्कोऽपि अवधिः । पूर्णस्तदहं दीक्षां गृह्णामि, ततो नन्दिनाऽपि ध्वजहहालङ्कारतोरणादिभिः कुण्डपुरं सुरलोकसमं कृतं, ततो नन्दिराजः शक्रादयश्च कनकमयान् १ रूप्यमयान् २ मणिमयान् ३ कनकरूप्यमयान् ४ कनकमणिमयान | ५रूप्यमणिमयान् ६ कनकरूप्यमणिमयान ७ मृन्मयांश्च ८ प्रत्येक अष्टोत्तरसहस्रं कलशान यावत् अन्यामपि च सकलां सामग्री कारयन्ति, ततोऽच्युतेन्द्राद्यैश्चतुःषष्ट्या सुरेन्द्ररंभिषेके कृते सुरकृताः कलशा दिव्यानुभाबेन नृपकारितकलशेषु प्रविष्टास्ततस्तेऽत्यन्तं शोभितवन्तः, ततः श्रीनन्दिराजः स्वामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकादिभिः सर्वकषायैश्चाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारदिर्शादिहस्ता जयजयशब्दं प्रयुञानाः पुरतस्तिष्ठन्ति, ततश्च भगवान् नातो गन्धकापाव्या रूक्षिताङ्गः सुरचन्दनानुलिप्सगात्रः कल्लतरुपुष्पमालामनोहरकण्ठपीठः कनकखचिर्ताञ्चलखच्छोज्वल लक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविराजवक्षःस्थलः केयूरकटकमण्डितभुजः कुण्डलललितगल्लतलः श्रीनन्दिराजकारितां पश्चाशद्धनरायतां पञ्चविंशतिधनुर्विस्तीर्णा षटत्रिंशद्धनुरुषों बहुस्तम्भशतसंनिविष्टां मणिकनकविचित्रां दिव्यानुभावतः सुरकृतताहकशिचिकामनुप्रविष्टां चन्द्रप्रभाभिधां शिविका आरूढो दीक्षाग्रहणार्थं प्रतस्थे, शेषं सूत्रकृत् वयं वक्ष्यति । दीप अनुक्रम [११६] For FFU Clu Gunjaneibrary.org ~ 208
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy