SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०९] गाथा ||..|| दीप अनुक्रम [११३] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [५] .......... मूलं [१०९] / गाथा [...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: कल्प. सुबो व्या० ५. ॥ ८८ ॥ ---------- पुरो यद्वचसां विलासः ॥ २ ॥ यतः - अनध्ययनविद्वांसो निर्द्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥ १ ॥ इत्यादि वदन् कृतब्राह्मणरूपस्त्वरितं यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समाजगाम, आगत्य च पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितमनोगतान् संदेहान् पप्रच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ ततो जैनेन्द्र व्याकरणं जज्ञे, यतः-सको अ तस्समक्खं भगवन्तं आसणे निवेसित्ता । सहस्स लक्खणं पुच्छि वागरणं अवयवा इंदं ॥ १ ॥ सर्वे जना विस्मयं प्रापुः - अहो वालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता ?, पण्डितोऽपि चिन्तयामास - आवालकालादपि मामकीनान् यान् संशयान् कोऽपि निरासयन्त्र | विभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः ! पश्यत चित्रमेतत् ॥ १ ॥ किश्च अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं ईदृशस्य महात्मनः, यतः गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥ १ ॥ तथा-असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्तादृग् यादृकू कांस्ये प्रजायते ॥ २ ॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच- मनुष्यमात्रं शिशुरेष विप्र !, नाशङ्कनीयो भवता स्वचिन्ते । विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारदश्वा ॥ ३ ॥ इत्यादि श्रीवर्धमानस्तुतिं निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात् इति श्रीले १ शक्रश्च तत्समक्षं भगवन्तं आसने निवेश्य शब्दस्य लक्षणमपृच्छत् व्याकरणं अवयवा ऐन्द्रं ॥ १ ॥ For Frate & Personal Use Only 201 लेखशालामोचनं २० २५ ॥ ८८ ॥ २७
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy