SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:) ...... व्याख्यान [५] .......... मूलं [१०८] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक [१०८] गाथा ||१..|| उपसर्गाश्च दिव्यादयश्चत्वारः सप्रभेदास्तु षोडश १६ तेषां (खंतीखमे ) क्षान्त्या-क्षमया क्षमते न स्वसमर्थ- आमलकीतया यः स क्षान्तिक्षमः (पडिमाणं पालए) प्रतिमानां-भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशे- क्रीडा षाणां पालकः (धीमं) धीमान ज्ञानत्रयोभिरामस्वात् ( अरइरइसहे ) अरतिरती सहते, न तु तत्र हर्षविपादी कुरुते इति भावः (दविए) द्रव्यं तत्तद्वणानां भाजनं, रागद्वेषरहित इति वृद्धाः (वीरिअसंपन्ने) वीर्य-पराक्रमस्तेन संपन्न:, यतो भगवान् एवंविधस्ततो (देवेहिं से णामं कयं समणे भगवं महावीरे) देवैः से इति-तस्य भगवतो नाम कृतं श्रमणो भगवान महावीर इति तृतीयम् ॥ (१०८)॥ तदिदं नाम देवैः कृतं, कथं कृतं? इत्यत्र वृद्धसंप्रदाया-अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सवो भगवान् द्वितीयाशशीव मन्दाराकर इव वृद्धि प्राप्नुवन् क्रमेण एवंविधो जात:-द्विजराजमुखो गजराजगतिः, अरुणोष्टपुटः सितदन्तततिः। शितिकेशभरोऽम्बुजमकरः, सुरभिश्वसितःप्रभयोल्लसितः॥१॥ मतिमान् श्रुतवान् प्रथितांवधियुक, पृथुपूर्वभवस्मरणो गतरुक । मतिकान्तिधृतिप्रभृतिखगुणैर्जगतोऽप्यधिको जगतीतिलकः ॥२॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण। आमलकीक्रीडानिमित्तं पुरादू बहिर्जगाम, तत्र च कुमारा वृक्षारोहणादिप्रकारेण कीडन्ति स्म, अत्रान्तरे सौध-18 र्मेन्द्र सभायां श्रीवीरस्य धैर्यगुणं वर्णयनास्ते, यदुत-पश्यत भो देवाः! साम्प्रतं मनुष्यलोके श्रीवर्द्धमानकुमारो बालोऽप्यथालपराक्रमः शक्रादिभिर्देवैरपि भापयितुं अशक्यः कटरे वालस्यापि धैर्य, तदाकर्ण्य च कश्चित् १४ दीप अनुक्रम [११२] ~198
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy