________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [४] .......... मूलं [१५] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [९५] गाथा ||१..||
भूमीए) मनोऽनुकूलया-मनाप्रमोददायिन्या एवंविधया बिहारभूम्या-चक्रमणासनादिभूम्या कृत्वा, अथगर्भपोषणम् सा त्रिशला किंविशिष्टा सती तं गर्भ परिवहति ? (पसत्थदोहला) प्रशस्ता दोहदा-गर्भप्रभावोद्भूता मनो-1 रथा यस्याः सा तथा, ते चैवं-जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि सधे, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥ १॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्यमानकरणा सितचामराभ्यां । आज्ञेश्वरस्वमुदिताऽनुभवामि सम्यग , भूपालमौलिमणिलालितपादपीठा ॥२॥ आरुह्य कुञ्जरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा । लोकैः स्तुता जयजये-18 तिरवैः प्रमोदाद्यानकेलिमनयां कलयामि जाने ॥३॥ इत्यादि, पुनः सा किंवि०१(संपुन्नदोहला) सम्पू
दोहदा, सिद्धार्थराजेन सर्वमनोरथपूरणात् , अत एव (सम्माणियदोहला) सन्मानितदोहदा, पूर्णीकृत्य || तेषां निवर्तितत्वात् , तत एव (अविमाणिअदोहला) अविमानितदोहदा, कस्यापि दोहदस्य अवगणना|भावात्, पुन: किंवि० ? (चुच्छिन्नदोहला) व्युच्छिन्नदोहदा पूर्णवाञ्छितत्वात् , अत एव (ववणीयदोहला)18 व्यपनीतदोहदा, सर्वथा असहोहदा (सुहंसुहेणं) सुखसुखेन-गर्भानाबाधया (आसइ) आश्रयति-आश्रयणीयं स्तम्भादिकं अवलम्बते (सयह ) शेते-निद्रां करोति (चिट्ठा) तिष्ठति-ऊर्ध्व तिष्ठति (निसीय) निषीदति-आसने उपविशति ( तुअर) त्वगवर्तयति-निद्रां विना शय्यायां शेते इत्यर्थः (विहरइ) विह-18
दीप अनुक्रम [९४]
U
nal
~176