________________
कल्प
सूत्र
प्रत
सूत्रांक
[९३]
गाथा
।।१..।।
दीप
अनुक्रम
[१]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- ( मूलं + वृत्तिः)
मूलं [ ९३] / गाथा [१९...]
व्याख्यान [४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
........................
दोषकरो नृणाम् । नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥ ३ ॥ इत्येवंप्रकारेण स श्रमणो भगवान् महावीरो (माऊअ अयमेयारूवं ) मातुरिमं एतद्रूपं ( अम्मत्थियं पत्थियं मणोगयं) आत्मविषयं प्रार्थितं मनोगतं ( संकप्पं समुत्पन्नं विजाणिता ) संकल्पं समुत्पन्नं अवधिना विज्ञाय ( एगदेसेणं एयइ ) | एकदेशेन अङ्गुल्यादिना एजते-कम्पते ( तए णं सा तिसला खन्तिआणी ) ततः सा त्रिशला क्षत्रिपाणी ( हह तुट्ठ जाव हिअया) हृष्टतुष्टादिविशेषणविशिष्टायावत् हर्षपूर्णहृदया ( एवं वयासी) एवं (अवादीत् ॥ (९३) ॥
अथ किं अवादीत् ? इत्याह - ( नो खलु मे गन्भे हडे ) नैव निश्चयेन मे गर्भो हृतोऽस्ति ( जाव नो गलि(ए) यावत् नैव गलितः (एस मे गन्भे पुविं नो एयइ ) एष मे गर्भः पूर्वं न कम्पमानोऽभूत् ( इयाणिं एयइत्तिकड ) इदानीं कम्पते इतिकृत्वा ( हट्ट जाब हियया एवं विहरइ ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति, अथ हर्षिता त्रिशलादेवी यथाऽचेष्टत तथा लिख्यते - प्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला रोमाञ्चितकञ्चुका त्रिशला ॥ १ ॥ प्रोवाच मधुरवाचा गर्भे मे विद्य | तेऽथ कल्याणम् । हा धिग मयकानुचितं चिन्तितमतिमोहमतिकतया ॥ २ ॥ सन्त्यथ मम भाग्यानि त्रिभु| वनमान्या तथा च धन्याऽहं । श्लाध्यं च जीवितं मे कृतार्थतामाप मे जन्म || ३ || श्रीजिनपदाः प्रसेदुः कृताः | प्रसादाश्च गोत्रदेवीभिः | जिनधर्मकल्पवृक्षस्त्वाजन्माराधितः फलितः ॥ ४ ॥ एवं सहर्षचित्तां देवीमालोक्य
172
Fersonal Use Only
हर्षा
५
१४