SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२] गाथा ||..|| दीप अनुक्रम [७२] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) मूलं [७२] / गाथा [...] व्याख्यान [४] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः: ........................ | णिच्छियट्ठा) विनिश्चितार्था:, अत एव (अहिगयट्ठा) अभिगनार्थाः - अवधारितार्थाः सन्तः (सिद्धत्थस्स रनो पुरओ) सिद्धार्थस्य राज्ञः पुरतः (सुमिणसत्थाई उच्चारेमाणा उचारेमाणा ) खमशास्त्राण्युच्चारयन्तः (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं ( एवं वयासी) एवमवादिषुः, स्वप्नशास्त्राणि पुनरेवं- अनुभूतः १ श्रुतो २ दृष्टः ३, प्रकृतेश्व विकारजः ४ । खभावतः समुद्भूत ५ श्चिन्तासन्ततिसम्भवः ६ ॥ १ ॥ देवताद्युपदेशात्थी ७, धर्मकर्मप्रभावः ८ । पापोद्रेकसमुत्थश्च ९, स्वमः स्यान्नवधा नृणाम् ॥ २ ॥ प्रकारैरादिमैः षड्भिरंशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वमः सत्यस्तु त्रिभिरुत्तरैः ॥ ३ ॥ रात्रश्चतुर्षु यामेषु, दृष्टः स्वप्नः फलप्रदः । मासैर्द्वादशभिः षडिस्त्रिभिरेकेन च क्रमात् ॥ ४ ॥ निशाऽन्त्यघटिकायुग्मे, दशाहात्फलति ध्रुवम् । दृष्टः सूर्योये स्वप्नः सद्यः फलति निश्चितम् ॥ ५ ॥ मालास्वशोऽहि दृष्टश्च तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्थः, स्वमः सर्वो निरर्थकः ॥ ६ ॥ धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्रार्थितमर्थं स्वप्नः प्रसाधयति ॥ ७ ॥ न श्राव्यः कुस्वशो. गुर्वादेस्तदितरः पुनः श्राव्यः । योग्यश्राव्याभावे, गोरपि कर्णे प्रविश्य वदेत् ॥ ८ ॥ इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया, जिनराजस्तवन संस्तवतः ॥ ९ ॥ स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नायं कथ्यः कथमपि केषांचित् फलति न स यस्मात् ॥ १० ॥ पूर्वमनिष्टं दृष्ट्वा स्वमं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य. भवेद् द्रष्टव्यं तद्वदिष्टेऽपि ॥ ११ ॥ स्वमे मानवमृगपतितुरङ्गमातङ्गवृषभ सिंहीभिः । युक्तं रथमारूढो यो गच्छति भूपतिः स भवेत् ॥ १२॥ For Frite & Personal Use Only 154 स्ववि चारः १० १४
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy