________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [६२] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६२] गाथा ||१..||
श्वेतवरचामरैरुदयमानैश्च शोभित इति शेषा, पुनः किंवि०१ (मंगलजयसहकयालोए) मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने यस्य स तथा, यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः | किंवि०१ (अणेगगणनायगत्ति) अनेके ये गणनायकाः-खखसमुदायस्वामिनः (दंडनायगत्ति) दण्डनायकाः तन्त्रपालाः खराष्ट्रचिन्ताकर्तारः इत्यर्थः (रायत्ति) राजानो-माण्डलिकाः (ईसरत्ति) ईश्वरा:-युवराजाः 'पाटबीकुंवर' इति लोके, अन किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इति प्रयोगभवनात (तलवरत्ति) तलवरा:-तुष्टभूपालप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः (माडंपियत्ति) माडम्बिका:-मडम्बवामिनः (कोडुबियत्ति) कौटुम्बिका:-कतिपयकुटुम्बखामिनः (मंतित्ति) मन्त्रिणो-राज्याधिष्ठायकाः सचिवाः (महामंतित्ति) महामन्त्रिणः त एव विशे-RI षाधिकारवन्तः (गणगत्ति) गणका:-ज्योतिषिकाः दोवारियत्ति) दौवारिका:-प्रतिहारा:(अमचत्ति)अमात्याःसहजन्मानो मन्त्रिणः (चेडत्ति) चेटा-दासाः (पीढमद्दत्ति) पीठमईका:-पीठ-आसनं मर्दयन्तीति पीठमर्दकाःआसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नागरा-नगरवासिनो लोका: (निगमत्ति) निगमा-वणिजः (सिहित्तिा श्रेष्ठिनो-नगरमुख्यव्यवहारिणः (सेणावइत्ति) सेनापतयः चतुरङ्गसेनाधिकारिणः (सत्यवाहत्ति)सार्थवाहा:सार्थनायकाः (दूअत्ति) दूता:-अन्येषां गत्वा राजादेशनिवेदकाः (संधिवालत्ति) सन्धिपाला:-सन्धिरक्षकाः (सद्धिं संपरिबुडे ) एतैः सर्वैः सार्ध संपरिघृतः, ईदृशो नरपतिर्मजनगृहात् प्रतिनिष्कामतीति योगा, अथ
दीप अनुक्रम [६४]
For
F
lutelu
~144