________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६०] / गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६०] गाथा ||१..||
aooooooose906003
गार्दैन्यभागलक्षणं एतेषां यो रागो-रक्तत्वं तथा (बंधुजीवगत्ति) बन्धुजीवकं-पुष्पविशेषः 'बपोहरीआ फुल' नृपस्योत्था. इति लोकप्रसिद्धं (पारावयचलणनयणत्ति) पारापतस्य चरणनयनं (परहुअसुरत्तलोअणत्ति) परभृतस्य-कोकि-1 नं सू.६० लस्य सुरक्ते-कोपादिना रक्तीकृते ये लोचने (जासुअणकुसुमरासित्ति) जपापुष्पस्य 'जासूद' इति लोकप्रसि-18 द्धस्य यो राशि:-समूहस्तथा (हिंगुलनिअराइरेगरेहंतसरिसे) हिंगुलनिकरच प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः |अतिरेकेण राजमानः सन् सहशा, अन्न यः अतिरेकेण राजमानः स सदृशः कथं भवतीत्याशङ्कायां रक्तत्व-18 मात्रेण सदृशः कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां हिङ्गुलनिकरान्तानां यो राजमानोऽतिरेक:-प्रकर्षस्तत्सदृश इति, घुनः किंविशिष्टे सूर्ये १ (कमलायरसंडवियोहए ) कमलानां आकरा-उत्पत्तिस्थानानि ये पद्महदादयस्तेषु यानि खण्डानि कमलवनानि तेषां विकाशके ( उद्वियंमि सूरे) एवंविधे अभ्युदित सूर्ये सति, पुनः किंवि०१ (सहस्सरस्सिमि) सहस्ररहमी, पुन: किंवि०१ (दिणयरे) दिनकरे-दिनकरणशीले, पुनः किंवि०? (तेअसा जलते) तेजसा देदीप्यमाने (तस्स य करपहरापर«मि अंधयारे) तस्य च-श्रीसूर्यस्य करमहारैः-किरणाभिघातैः अन्धकारे अपराद्धे-विनाशिते सति, अथ च | (बालायवकुंकुमेणं खचियव्य जीवलोए) बालातपः प्रसिद्धः स कुङ्कुममिव तेन जीवलोके-मनुष्यलोके | खचिते-व्याप्ते सति, कोऽर्थः ?-यथा कुङ्कुमेन किञ्चिद्वस्तु पिञ्जरीक्रियते तथा बालातपेन जीवलोके पिञ्जरीकृते सति (सयणिजाओ अब्भुढेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ (६०)॥
दीप अनुक्रम [६२]
UnEducation
~138