________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [३६] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३६] गाथा ||१..||
काराणि पूर्वोक्तमानादर्धमानोचत्वदीर्घत्वपृथुत्वानि अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु क्रमेणार्धा- वलयपूरि मानत्वं ज्ञेयं, इति प्रथमं वलयम् , द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकदेवानां चतुःसहस्री वारवर्णनं | कमलानां, पूर्वदिशि चत्वारि महत्तराकमलानि, आग्नेय्यां गुरुस्थानीयर्याभ्यन्तरपर्षदेवानां अष्टसहस्रकमलानि, |सू. ३६ दक्षिणदिशि मित्रस्थानीयमध्यमपर्षद्देवानां दशसहस्रकमलानि, नैर्ऋत्यां किङ्करस्थानीयवाह्यपर्षदेवानां द्वादशसहस्रकमलानि, पश्चिमायां च हस्ति १ तुरङ्गम २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्य ७ रूपसप्तकटकनायकानां सप्त कमलानि, इति द्वितीयं वलयम्, ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्रकमलानि, इति तृतीयम् वलयं, अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशल्लक्षकमलानि, पश्चमे वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि, षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशल्ल-18 क्षकमलानि, सर्वसंख्यया च मूलकमलेन सह एका कोटिविशतिर्लक्षाः पञ्चाशत् सहस्राः शतमेकं विंशतिश्च । १२०५०१२० कमलानामिति । अथ एवंविधं यत्कमललक्षणं स्थानं तत्र स्थितां, पुनः किंवि०१ (पसत्थरूवं) प्रशस्तरूपां-मनोहररूपां इत्यर्थः, पुनः किंवि०१ (सुपइहिअत्ति) सुप्रतिष्ठितौ-सम्यक्तया स्थापितौ यौ(कणगमयकुम्मत्ति) कनकमयकच्छपी तयोः (सरिसोवमाणचलणं) सहशं-युक्तं उपमानं ययोः एवंविधौ चरणी यस्याः सा तथा तां, पुनः किंवि०१ (अच्चुन्नयत्ति) अत्युन्नतं तथा (पीणत्ति) पीनं-पुष्टं यत् अङ्गुष्ठादि अगं, तत्र स्थिताः (रहा) रञ्जिता इव, अयमर्थ:-श्रीदेव्याः खयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रेक्ष्यन्ते
दीप अनुक्रम [३८]
JanEducation
प
msanelibrary.org
- 106