________________
आगम
(४०)
[भाग-3] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H, नियुक्ति: [१०,११], भाष्यं , विभा गाथा [३९२], मूलं - गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
Mi
प्रत सूत्रांक
H
दीप
पराहन्ति पराघाताच शब्दपरिणाम भजन्ते, ततो द्वितीयसमये तानि प्रसरमधिरोहन्ति मन्यानं साधयन्ति, तृतीयसमये|
तु तदन्तरालापूरणात् सकललोकमापूरयन्ति, उक्तं च-"न समुग्घायगई मीसयसवणं मयं च दंडमि । जइ तोधि। जातीहिं पूरह समएहिं जओ पराघातो ॥१॥ (३९२ वि०)" अथ जैनसमुद्घात इव चतुर्भिरेव समयैर्भाषयाऽपि लोकापूरणं |
भविष्यति, ततः को दोषः?, तदसमीचीन, सम्यसिद्धान्तापरिज्ञानात् , जैनसमुद्घाते हि जीवप्रदेशा एव स्वरूपेण लोकमा-1 | पूरयन्ति, न पुनस्तत्र कस्यापि पराघातोऽस्ति, ततो न तत्र द्वितीयसमये मन्थाः, किन्तु कपाट एव केवला, अन्यच्च-केवली भवोपग्राहिकर्मणामुपघाताय केवलिसमुद्घातमारभते, स च केवलचक्षुषा परिभाव्यमान इत्यमेव क्रियमाणस्तेषां भवोपग्राहिकर्मणामुपघाताय प्रभवति, नान्यथा, यदिवा दण्डकपाटादिक्रमेणैव जीवप्रदेशैः सकललोकपूरणं भवति, नान्यथा, तथास्वाभाव्यादिति केवलिसमुद्घातस्य चतुःसमयता, भाषापुद्गलानां स्वनुश्रेणिगमनं पराघातेन द्रव्यान्तरवासक| तास्वभावश्च सकललोकव्याप्ती हेतुः, ततः प्रथमसमय एव ऊर्ध्वाधोदण्डे कृते द्वितीयसमये चतसृष्वपि दिक्षु अनुश्रेणिगमनात्
पराघातेन तदन्यद्रव्यवासकत्वाच्च ते मन्धानं साधयन्ति, तृतीये तु समये स्वन्तरालापूरणतः समस्तलोकव्याप्तिरिति ४ानिसमयतैवात्रापद्यते, न चतुःसमयतेति, अथ योऽसावचित्तमहास्कन्धः प्रज्ञापनादिषु वण्यते स जीवप्रदेशापूरणात्मको
न भवत्यचित्तमहास्कन्धत्वात्, किन्तु पुद्गलमयः, ततो यथाऽसौ पुद्गलमयोऽपि नियमाच्चतुःसामयिक एव, एवं भाष.
याऽप्यापूरर्ण लोकस्य चतुःसामयिकमेव भविष्यति, न त्रिसामयिकमिति को दोषः?, तदयुक्तम् , अचित्तमहास्कन्धी मा.सू.पहाहि विश्नसापरिणामेन भवति, विसापरिणामश्च यद्यपि विचित्रस्तथापि स केवलचक्षुषा सर्वदैव तथास्वाभाव्यादित्यमे
अनुक्रम
495