SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययनं [-], निर्युक्ति: [९] भाष्यं [-] वि० भा० गाथा [-], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः वान् वैक्रियः आहारकवान् आहारकः, असौ औदारिकादिर्गृह्णाति - आदचे शब्दप्रायोग्यानि द्रव्याणीति गम्यते, गृहीत्वा भाषात्वेन परिणमय्य मुखति- निसृजति भाष्यत इति भाषा तां शब्दपरिणतद्रव्यसंहतिं, किंविशिष्टामित्याह- 'सत्यां' इह सम्तो - मुनयस्तेषामेव मुक्तिमार्गप्रवृत्ततया तात्त्विकशिष्टत्वात् तेभ्यो हिता- निरवद्यानुष्ठानरूपतया मुक्तिमार्गानुकूलत्वादुपकारिणी सत्या, इह यत् यस्मै हितं तसत्र साध्विति साधुत्वविवक्षायां तत्र साधा' विति यः प्रत्ययः, अथवा सन्तो-मूलोत्तरगुणास्तेषामेव मुक्तिमार्गतया अतिप्रशस्यत्वात् तेभ्यो हिता तदाराधनात् पूर्ववत्साघुत्वविवक्षायां यः प्रत्ययः, यदिवा सन्तो-जीवादयः पदार्थास्तेभ्यो हिता यथावस्थिततत्स्वरूपप्रत्यायकत्वात् सत्या, अत्रापि पूर्ववत् यः प्रत्ययः, यथा अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपा, तद्विपरीताऽसत्या, यथा नास्ति जीवः एकान्तसद्रूपो वेत्यादिरूपा, | तथा सत्यामृषा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमित्यादिरूपा, अत्र हि कतिपयाशोकवृक्षाणां सद्भावात्सत्यता अन्येषामपि धवादीनां सद्भावान्मृषता, व्यवहारनयमतापेक्षयेदमुच्यते, परमार्थतः पुनरियमसत्येति, यथाऽभि हितार्थायोगात्, तथा या न सत्या नापि मृषा सा असत्यामृषा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतितिष्ठाशया सर्वज्ञमतानुसारेण या भाषा प्रोच्यते यथा अस्ति जीवः सदसद्रूप इत्यादि सा किल सत्या परिभाषिता, आराधकत्वात्, यया पुनर्विप्रतिपतौ सत्यां सर्वज्ञमतोसीर्णमुच्यते यथा नास्ति जीव एकान्तनित्यो वेति साऽसत्या, विराधनीत्वात्, या पुनर्वस्तुप्रतितिडासामन्तरेण स्वरूपमात्रप्रतिपादनपरा यथा हे देवदत्त ! घटमानय गां देहि मह्यमित्यादिरूपा सा असत्यामृषा, इयं हि स्वरूपमात्रप्रतिपादन फलत्वात् न यथोक्तलक्षणा सत्या नापि मृषा, ततः असत्या चासावमृषा च असत्यामृषेति, आसां For Private & Personal Use Only ~91~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy