________________
आगम
(४०)
[भाग-3] “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं , नियुक्ति: [७], भाष्यं , वि०भा०गाथा , मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
अपोखाते
प्रत
महणानक
यो सा. न्तरनिरन्तरवि. चार:
सूत्रांक
दीप
णात्, तथा श्रुतपिरोधश्च, तथाहि प्रज्ञापनायां भाषापदे सूत्रमिदं-"अणुसमयमविरहियं निरंतरं गेण्हईति . अत्र च प्रतिसमयग्रहणप्रतिपादनेन प्रतिसमयनिसर्गप्रतिपादनमपि द्रष्टव्यं, गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गात्, एकान्तरग्रहणमोक्षाभ्युपगमे चाधिकृतसूत्रविरोधः, अथ सूत्र एव साक्षादुक्तं-"संतरं निसिरइ नो निरंतरं, एगेण समएणं गेण्हइ एगेणं समएणं निसिरई" इत्यादि, ततः कथमधिकृतसूत्रविरोध, तदेतदयुक्तम् , सूत्रार्थसम्यकपरिज्ञानाभावात्,
इह निसर्गोऽपि ग्रहणापेक्ष इति सान्तरोऽभिहितः, तथाहि-यथाऽऽद्यसमयादारभ्य प्रतिसमयं ग्रहणं नैवं निसर्गः *प्रथमसमये तस्याभावादिति ग्रहणापेक्षयाऽसौ सान्तरस्तत उक्त 'संतरं निसिरइ नो निरंतर'मिति, अथ ग्रहणमप्येवं निसर्गापेक्षया सान्तरमापद्यते, न चैतत्सूत्रे सान्तरमभिहितं, तस्माद्यत्किञ्चिदेतद् व्याख्यानमिति, तदयुक्तम् , ग्रहणं हि स्वतन्त्रं, प्रथमसमये निसर्गमन्तरेणापि तस्य भावात् , ततो नैवादस्तदपेक्षया सान्तरं, निसर्गस्तु ग्रहणपरतन्त्रं अगृहीतस्य | निसर्गायोगादिति पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेशः, यद्येवं तत एतत्सूत्रं कथं नीयते-एकेन समयेन गृह्णाति एकेन निस्जतीति !, उच्यते, सान्तरं निसृजति नो निरन्तरमित्युक्तं, एतच्चावसीयते यत् एकेन समयेन गृह्णाति एकेन समयेन निस्जति, किमुक्तं भवति ।-यानि यानि यस्मिन् यस्मिन् समये गृहीतानिशब्दद्व्याणि तानि तानि तत्तद्ग्रहणसमयान. न्तरसमये सर्वाणि निसृजति, ततो ग्रहणापेक्षया सास्तरो नो निरन्तर इति, अथवा एकेन-आधेन समयेन गृहाति 'सर्व वाक्यं सावधारणमिष्टितशावधारणविधि'रिति न्यायाद् गृहात्येव, नतु निखजति, द्वितीयसमयादारभ्य निसर्गस्य प्रवृत्ते, प्रथमसमये पूर्वगृहीतबन्धासम्मवाद, तथा एफेन-पर्यन्तवर्षिना समयेन निसजति-निसजत्येव, न तु गृहाति, भार
अनुक्रम
USA
~88~