________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [७], भाष्यं [-] वि० भा० गाथा [ ३५५ ], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घाते
॥ ३२ ॥
froes heri निसरह तह वाइएण जोगेणं । एतरं च गिण्हइ निसिरह एगंतरं चैव ॥ ७ ॥ कायेन निर्वृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः क्रियेत्यनर्थान्तरं, सर्व एव हि वक्ता कायक्रियया 4 शब्दद्रव्याणि गृह्णाति चशब्दस्त्वेवकारार्थः, स चात्रधारणे, तस्य च व्यवहितः सम्बन्धः, गृह्णाति कायिकेनैव, निसृजति उत्सृजति मुञ्चतीतियावत्, 'तथे' त्यानन्तर्यार्थः ग्रहणानन्तरमित्यर्थः, उच्यत इति वाक् याचा निर्वृत्तो वाचिकस्तेन वाचिकेन योगेन, कथं गृह्णाति ? निस्सृजतीति वा ?, किमनुसमयमुतान्यथेत्याशङ्कासम्भवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति निसृजत्येकान्तरं चैत्र, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं पुरुषादनन्तरः पुरुषः पुरुषान्तरं, एवमेकैकस्मात्समयादेकैक एवानन्तरसमय एकान्तरं, उक्तं च- "जह गामातो गामो गामंतर मे (बमे) ग एगाओ। एगंतरंति भन्नइ समयाओडणंतरो समओ ॥ १ ॥ ( ३५५ वि०) ततोऽयमर्थ:- प्रतिसमयं गृह्णाति प्रतिसमयं मुञ्चतीति गाथासङ्क्षेपार्थः ॥ अत्र कश्चिदाह--ननु कायिकेन योगेन गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात्, निसृजति तु कथं वाचिकेन योगेन ?, को वाऽयं वाग्योगः १, किं वागेव व्यापारात्मिका आहोश्चित्तद्विसर्गहेतुः कायसंरम्भः, तत्र यदि पूर्वी विकल्पोऽसावनुपपन्नः, बाचो योगत्वायोगात्, न खलु वाक्केवला जीवव्यापारस्तस्याः पुद्गलमात्रपरिणामरूपत्वात् रसादिवत् तथा च प्रयोगः-यः पुद्गलमात्र परिणामरूपः स जीवव्यापाररूपो योगो न भवति, यथा रसगन्धादयः, पुद्गलमात्रपरिणामरूपा च वागिति योगो ह्यात्मनः शरीरवतो व्यापारः, स कथं पुद्गलमात्र परिणामरूपो भवितुमर्हति ?, अन्यश्च न तया वाचा किश्चिदन्यत् निसृज्यते, किन्तु सैव, ततो वाचो योगत्वे 'निसरइ तह वाइपणंती' त्येतदनुपपन्नं, अथ द्वितीयः पक्षस्तर्हि स कायव्यापार एवेति |
For Private & Personal Use Only
86~
★ वचने ग्रहणनिसगाँ
गा, ७
॥ ३२ ॥