________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्तिः [ ५ ], भाष्यं [ - ], वि० भा० गाथा [ ३४५-३४७ ], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
पोते
॥ ३१ ॥
| मेतावत्येव शक्तिर्यद् द्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन् गृहन्ति, न परतः, चक्षुरपि सातिरकयोजनलक्षान्तर्व्यवस्थितं न परतोऽपीति, तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च परतो हि समागताः शब्दादिपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रा| दिविज्ञानं नोत्पादयितुमीशाः, आह च भाष्यकृत् - "बारसहिंतो सोचं सेसाणि व नवहिं जोयणेहिंतो । गेण्हंति पचमत्थं | पत्तो परतो न गेव्हंति ॥ १ ॥ दद्याण मंदपरिणामयाए परतो न इंदियबलं "ति, (३४८॥वि.) मनसस्तु न क्षेत्रतो विषयपरिमाणं, पुद्गलमात्रनिबन्धनाभावात्, इह यत्पुद्गलमात्रनिबन्धनियतं न भवति न तस्य विषयपरिमाणं, यथा केवलज्ञानस्य, न भवति च पुद्गलमात्रनिबन्धनियतं मन इति, विषयपरिमाणं हि पुद्गलमात्रनिबन्धनियततया व्याधं, तथाहि--यस्य विषयपरिमाणमस्ति तत्पुद्गलमात्रनिबन्ध नियतं दृष्टं यथाऽवधिज्ञानं मनःपर्यायज्ञानं वा तत एवं व्याप्यव्यापकभावप्र|तिबन्धनिश्चये व्यापकाभावे व्याप्याभाव इति व्यापकानुपलब्धिरियं, आह च भाष्यकृत् - "अवरमसंखेजकुलभा| गातो नयणवज्जाणं ॥ संखेजइभागातो नयणस्स मणस्स न विसयपरिमाणं । पोग्गलमित्तनिबंधाभावातो केवलस्सेव ॥१॥” (( ३४९ - ३५० वि.) इह 'स्पृष्टं शृणोति शब्द मित्युक्तं, तत्र किं शब्दप्रयोगोत्सुष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव तद्वासितानि आहोश्चिन्मिश्राणीति चोदकाभिप्रायमाशय न तावत्केवलानि तेषां वासकत्वात्, तद्योग्यद्रव्यसमाकुलत्वाच्च सकललोकस्य, किन्तु मिश्राणि तद्वासितानि वा, न केवलानि गृह्णातीत्यमुमर्थमभिधित्सुराह -
भासासमसेडीतो सं जं सुणह मीसयं सुणइ । वीसेठी पुण सदं सुणेइ नियमा पराधाए ॥ ६ ॥
For Private & Personal Use Only
~84~
इन्द्रियविषयमानं
शब्दश्रवणे
दिग्विदि
शोर्भेदः गा. ६
॥ ३१ ॥