________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [ ५ ], भाष्यं [ - ], वि० भा० गाथा [ ३४०-३४२] मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
लक्खं अइरिसंजोयणाणं तु ॥ १ ॥” (वि. ३४०) ननु देहप्रमाणं समुच्छ्रयाङ्गुलेन, देहाश्रितानि च इन्द्रियाणि ततस्तेषां विषयपरिमाणमच्युच्छ्रयाकुलेन वकुमुचितं, कथमुच्यते आत्माङ्गुलेन १, नैष दोषः, यद्यपि हि नाम देहाश्रितानि इन्द्रियाणि तथापि तेषां |विषयपरिमाणमात्माङ्गुलेन, देहादन्यत्वाद् विषयपरिमाणस्य, तथा चामुमेवार्थ माक्षेपपुरस्सरं भाष्यकृदाह - “नणु भणियमुस्सयकुलपमाणओ जीवदेहमाणाइं । देहपमाणं तं चिय न उ इंदियविसयपरिमाणं ॥ १|| (वि०३४१) अत्र 'देहप्यमाणं तं चिय' इति यत् तत् उच्छ्रयाङ्गुलमेयत्वेनोकं तद्देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वात्, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रयाकुलेन स्यात् ततः को दोष आपद्येत !, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारच्यवच्छेदः, तथाहि - यद्भरतस्यात्माकुलं तत्किल प्रमाणाकुलं तच्च प्रमाणाङ्गुलमुच्छ्रयाङ्गुलसहस्रेण भवति, “उस्सेहङ्गुलमेगं हवइ पमाण| कुलं सहस्सगुण" मितिवचनात् ततो भरतसगरादिचक्रवत्तिनां या अयोध्यादयो नगर्यो ये च स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्रयाङ्गुलमित्या अनेकानि योजनसहस्राणि स्युः तथा च सति तत्रायुधशालादिषु ताडित भेर्यादिशब्दश्रवणं न सर्वेषामापद्येत, "वारसहिं जोयणेहिं सोयं अइगिण्हए सद्द" मिति वचनात्, अथ च समस्तनगरब्यापी समस्त स्कन्धावारव्यापी व विजयढक्कादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनुःशतादिमनुध्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गुलेनेन्द्रियविषयपरिमाणमवसातव्यं, नोच्छ्याङ्गुलेन, तथा चाह भाष्यकृत्-"जं तेण पंचधणुसयनरादिविसयववहारोच्छेओ । पावइ सहस्सगुणियं जेण पमाणङ्गुलं तत्तो ॥ १॥” (वि.३४२) अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेति उपसंहारवाक्यं (यत्) तत् स्वतः परिभावनीयं, यदप्युक्तं प्राक् 'देहा
For Private & Forsonal Use Only
~81~