________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [–], निर्युक्ति: [ ५ ], भाष्यं [ - ], वि०भा० गाथा [३३७ ], मूलं [- / गाथापूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घाते
॥ २९ ॥
ऽप्याह- "पुठ्ठे रेणुं व तशुंमि बद्धमप्पीकथं परसेहिं । छिकाई चिय गिण्हइ सदद्दवाई जं ताई॥ १॥ तह (बहु) मुहुमभावुगाई जं पडुयरयं च सोयविन्नाणं । गंधादी दवाई विवरीयाई जतो ताई ॥ २ ॥ फरसाणंतरमत्तप्पएसमीसीकयाई धिप्पंति । पडु* यरविण्णाणाई जं च न घाणाइकरणाई ||३|| ” (वि.३३७-९) नन्विदमुक्तं-योग्य देशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितं, तत्र कियान चक्षुषो विषयः कियतो वा देशादागतं श्रोत्रादि गृह्णाति १, उच्यते, श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुला| सवेयभागमात्राद्देशादुत्कर्षतस्तु द्वादशभ्यो योजनेभ्वः, चक्षुरिन्द्रियमपि जघन्यतोऽङ्गुलसङ्ख्येय भागमात्रावस्थितं पश्यति, उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितं, घाणरसनस्पर्शनानि तु जघन्येनाङ्गुला सङ्ख्येयभागमात्रात् देशादागतं गन्धादि गृहन्ति, उत्कर्षतस्तु नवभ्यो योजनेभ्यः । नन्वकुलं त्रिधा भवति, तद्यथा- आत्माकुलमुच्छ्रया प्रमाणाङ्गुलं च तत्र णं जया मणूसा तेसिं जं होइ माणरूवं तु । तं भणियमिहायङ्गुलमणिअयमाणं गुण इमं तु ॥ १ ॥ इत्येवंरूपं आत्माङ्गुलं, "परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अह्गुणविवडिया कमसो ॥१॥" इत्यादिरूपमुच्छ्रयाङ्गुलं “उस्सेहङ्गुलमेगं हवइ पमाणङ्गुलं सहस्सगुणं । तं चैव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥" इत्येवंलक्षणं प्रमाणालं तत्र आत्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छ्रयाङ्गुलेन नरतिर्यग्देवनैरविकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि उक्तं च- "आयङ्गुलेण वत्युं उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाई मिणसु पमाणङ्गुलेणं तु ॥ १||” तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेन प्रतिपत्तव्यमाहोश्वित् उच्छ्रयाकुलेन १, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत् -"अप्पत्तकारि नयणं मणो व नयणस्स विषयपरिमाणं । आयङ्गुलेण
••• अत्र इन्द्रियाणां विषय-मानं वर्णयते
Private & Personal Use Only
~80~
इन्द्रियाणां विषयमानम्
॥ २९ ॥