________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १
अध्ययनं -1, नियुक्ति: [५], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
प्रत सूत्रांक
दीप
शब्द यथावस्थितं परिच्छिन्धुः,नच परिच्छिन्दन्ति, तस्मात्प्राधा एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम्, इतधाभ्युपगन्तव्यमन्यथाक्रमग्रहणानुपपत्ते, तथाहि-यद्यप्राधा एव शब्दा गृह्यन्ते तर्हि तेषां योग्यदेशावस्थितानां समीपस्यैर्दूरस्वैव प्रहणमेककाले भवेद, यथा पापा पोषदेशावस्थानां घटपटादीनां, अव च क्रमेण महणमनुभूयते, पूर्व समीपस्थैः पश्चादूरस्वैरिति, यदपि चोकं चाण्डालसर्शदोष' इति, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीन, स्पर्शास्पर्शव्यवस्था हि लोके काल्पनिकी न पारमार्थिकी, तथाहि-यामेव भुवमने चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतः चाण्डालं सृष्टा र श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोपव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिदोषः, अन्यत्रयदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निवध्य वपुषि वा मृगमदचन्दनाधवलेपनमारचय्य विपणिवीथीमागत्य चण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, सतस्तत्रापि चाण्डालस्पर्शदोपः प्रामोतीति तद्दोषभयानासिकेन्द्रियमप्यप्राप्यकारि प्रतिपत्तव्यं,न चैतद्भवतोऽप्यागमे प्रतिपाद्यते, ततो बालिशजपितमिति कृतं प्रसङ्गेन । केचित्पुनः श्रोत्रेन्द्रियस्य प्राप्यकारितामप्यभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः, तदश्लील, आकाशगुणतायां शब्दस्यामूर्त्तत्वप्रसक्तः, यो हि यद्गुणः स तत्समानधर्मा, वथा ज्ञानमात्मनः, तथाहि-अमूर्च आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणः तर्हि आकाशस्यामूर्त्तत्वात् शब्दस्यापि तद्गुणत्वेनामूर्तता ४ भवेत्, न चासौ युक्तिसङ्गता, तल्लक्षणायोगात् , मूर्णिविरहो ह्यमूर्तता, न च शब्दानां मूर्तिविरहा स्पर्शवत्त्वात् , तथाहि
अनुक्रम
ccCAS
~77~