________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १
अध्ययनं -1, नियुक्ति: [५], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
X-40
दीप
उपोदातेरमभिगृहानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपपातः, ननु यदि श्रोत्रेन्द्रिय प्राप्तमेव शब्दं गृह्णाति नाप्राप्त वहिन
नां सृष्टादियथा गन्धादी गृह्यमाणे न तत्र दूरासन्नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात्, प्राप्तो हि विषयः परिच्छिद्यमानः
सृष्टवादि सर्वोऽपि सन्निहित एव तत्कथं तत्र दूरासन्नादिभेदप्रतीतिर्भवितुमर्हति, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा । च लोके वक्तार:-श्रूयते कस्यापि दूरे शब्द इति, अन्यच्च यदि प्राप्ठः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोकोऽपि शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रस्य चाण्डालरपर्शदोषः, तन्न श्रेयसी श्रोत्रेन्द्रियस्य प्राप्तकारिता, तदेतन्महामोहमलीमसमानसभाषितं, यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे | ४ शब्देऽपि स्वभाववैचित्र्यसम्भवात् दूरासन्नादिभेदप्रतीतिरुल्हसिष्यति, तथाहि-दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिन्न 8 |इव लक्ष्यते, अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थ:-दूरादागतः श्रूयते इति, स्यादेतद्-एवमतिप्रसङ्गः प्रामोति, तथाहि-एतदपि वक्तुं शक्यते, दूरे रूपमुलभ्यते, किमुक्तं भवति?-दूरादागतं रूपमुपलभ्यत इति, ततश्चक्षुरपि प्राप्यकारीति प्रामोति, न चैतदिष्यते तस्मान्न तत्समीचीनमिति, तदयुक्त, यत इह चक्षुषो रूपकृतावुपग्रहोपघाती नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघात उपलम्भगोचरोऽस्ति, यथोक्तं प्राक्, ततो नातिप्रसङ्गापादनं युक्तिमत्, अन्यच्च प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवर्मनि पुनरवतिष्ठमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोके वकारो-न वयं प्रत्यासमा अपि त्वदीयं शब्द शृणुमः, पवनस्य प्रतिकूलमवस्थानाद, यदि पुनरमासमेव शब्द रूपमिक जनाः प्रमिणीयुस्ताई पवनस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिव
अनुक्रम
CADORXLASH
For
Fun
A
s anelibrary.org
~76~