________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [–], निर्युक्ति: [ ५ ], भाष्यं [ - ], वि०भा० गाथा [३३४ ], मूलं [- / गाथापूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
तदावरण कर्मक्षयोपशमाख्या संस्कारापरपर्याया, अत एव स्मृतिधारणाया बीजभूता सङ्ख्येयवर्षायुषां सत्त्वानां सङ्ख्ोयं असक्लोयवर्षायुषां च पश्योपमादिजी विनामसङ्ख्येयमिति, उक्तं च-त (अ) स्थोग्गहो जहण्णो समओ सेसोग्गहादयो वीसुं । अंतोमुहुत्तमेगं तु वासणा धारणं मोत्तुं ॥ १ ॥” (वि०३३४) तदेवमवग्रहादीनां कालमानमभिधाय सम्प्रति श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह
पुढं सुणेइ सद्दं रूवं पुण पासई अपुई तु । गंध रसं च फासं च बद्धपुढं वियागरे ॥ ५ ॥ ननु व्यञ्जनावग्रहप्ररूपणाद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्राक् प्रतिपादिता ततः किमर्थमेषः पुनः प्रयास इति १, उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोषः, श्रोत्रेन्द्रियं कर्तृ शब्दं कर्मतापनं शृणोति गृह्णाति परिच्छिनतीति भावः स्पृष्टं तनौ रेणुवत् आलिङ्गितमात्रं, किमुक्त भवति १-शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माणि, अत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति, तदन्यद्रव्यवासनस्वभावानि च श्रोत्रेन्द्रियं शेषेन्द्रियगणापेक्षया प्रायः पटुतरं ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृह्णाति एतेन | यदाहुः सुगतमतानुसारिणः - श्रोत्रमप्यप्राप्तकारि, तथा च तद्ग्रन्थः "चक्षुःश्रोत्रमनोऽप्राप्यकारी" ति, ते प्रतिक्षिप्ता द्रष्टव्याः तथाहि अप्राप्यकारि तत् प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावो, यथा चक्षुर्मनसी, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातत्रालकस्य समीपे महाप्रयलताडितझलरीझात्कारश्रवणतो यद्वा विद्युत्प्रपाते, तत्प्र| त्यासन्न देशवर्त्तिनां निर्घोषश्रवध्यतो बधिरीभावदर्शनात्, शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य जलतरङ्गन्यायेन प्रस
श्रोत्रेन्द्रियस्य प्राप्त अप्राप्त विषयस्य वर्णनं
For Private & Personal Use Only
~75~