SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १ अध्ययनं [–], निर्युक्तिः [ ५ ], भाष्यं [ - ], वि०भा० गाथा [-], मूलं [- /गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ॥ २८ ॥ उपोद्घाते ४ स्पर्शवन्तः शब्दाः, तत्सम्पर्के उपघातदर्शनालोष्ठवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातचालकानां कर्णदेशाभ्यर्णगाढास्फालितझलरीझात्कारश्रवणतः श्रवणस्फोटो, न चेत्थमुपघातकृत्त्वमस्पर्शवत्स्त्वे सम्भवति, यथा हि विहायसः, ततो | विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगहुरभित्त्यादिषु शब्दोत्थानात् लोटवत्, अयमपि हेतुरुभयोरपि सिद्ध:, तथाहि श्रूयते तीव्रप्रयत्तोच्चारितशब्दाभिघाते गिरिगह्वरादिषु प्रतिशब्दाः प्रतिदिक, ततः स्पर्शवत्त्वान्मूर्त एव शब्दः, 'रूपस्पर्शादिसन्निवेशो मूर्त्तिरिति वचनात् ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत्, अपिच तदाकाशमेकमनेकं वा ?, यद्येकं तर्हि योजनलक्षादपि श्रूयेत, आकाशस्यैकत्वेन शब्दस्य तद्गुणतया | दूरासन्नादिभेदाभावात्, अथानेकम्, एवं सति वदनदेश एव स विद्यत इति कथं भिन्नदेशवर्त्तिभिः श्रूयते ?, वदन देशाकाशगुणतया तस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसम्वन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया तत्श्रवणमभ्युपगम्यते, तन्न श्रेयानाकाशगुणत्वाभ्युपगमः, नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः शब्दस्य स्वाकाशमिति, तदयुक्तं, एवं सति पृथिव्यादीनामप्याकाशाश्रितत्वेनाकाशगुणत्वप्रस केः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं, किन्तु समवायः, स चा स्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम ?, एकलोलीभावेनावस्थानं यथा पृथिव्यादिरूपाद्यो ॥ २८ ॥ रिति चेत्, न तर्हि शब्दस्याकाशगुणत्वम्, आकाशेन सहास्यै कलोलीभावेनाप्रतिपत्तेः अथाकाशे उपलभ्यमानत्वात् तद्गुणता | शब्दस्य तर्हि तूळकादेरप्याकाशे उपलभ्यमानत्वात् तद्गुणता प्राप्नोति, अथ तुलकादेः परमार्थतः पृथिव्यादिस्थानमा काशे For Private & Personal Use Only ~78~ शब्दस्थाम्वरगुणतानिरासः
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy