SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १ अध्ययनं -1, नियुक्ति: [३], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: वस्कर प्रत सूत्रांक तार्थविशेषपरित्यागाकाही मतिविशेष इति, विशिष्टोऽवसायो व्यवसाय निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं तं, व्यवसायम् अर्थानामिति वर्त्तते अवार्य छुवत इति संसर्गः, एतदुकं भवति-शास एवार्य शार्ज एवायमित्याधवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थःस चावधारणे, व्यवसायमेवावायं त्रुवत इति, धृतिर्धारणम् अर्थानामिति वचते, परिच्छिन्नस्य वस्तुनोऽविच्युतिवासनास्मृतिरूपं धरणं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकाराषी, स चावधारणे, युवते इत्यनेन शास्त्रपार-- तन्यमाह, इत्थं तीर्थकरगणधरा बुवते इति, अर्थावग्रहेहापायधारणाः पञ्चस्विन्द्रियेषु षष्ठे च मनसि भावात् प्रत्येकं पड्भेदात्मकाश्चतुर्दा व्यञ्जनावग्रह इति सर्वसङ्कलनयाऽष्टाविंशतिभेदभिन्नमाभिनियोधिकं ज्ञानमवगन्तव्यं, नवरमीहा सहनधर्मोपेतवस्तुविषयेति नयनादिनिबन्धनेहाविषया यथाक्रमं स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकारवेल्लमांसादिसपर्पोत्पलना लादयः प्रतिपत्तव्याः, उक्तंच-"थाणुपुरिसादिकुहुप्पलादिसंभियकोल्लमंसाई। सप्पुपलनालाइय समाणरूवाइ विसयाई॥१॥" *(वि०२९३)अन्ये पुनरेवं पठन्ति-"अस्थाणे जग्गहणमि जग्गहो तह वियालणे ईहा । ववसायंमि अवाओ धरणं पुण धारण ति |॥"तत्रार्थानामवग्रहणे सति अवग्रहो नाम प्रथमो मतिभेदो भवतीत्येवं युवते,एवमीहादिष्वपि योज्य, भावार्थस्तु पूर्ववत्, | अथवा माकृतत्वाद्भवति विभक्तीनां व्यत्ययो, यदाह पाणिनिः स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासा" मिति, ततो यथा आचाराङ्गे "अगणिं च खलु पुट्ठा वेग संघायमावजंती"त्यत्र सूत्रे अग्निना च स्पृष्टा, अथवा स्पृष्टशब्दः पतितवाची, अग्नौ च पतिता एके-शलभादयः सहातमापद्यन्ते-अन्योऽन्यगात्रसङ्कोचमासादयन्ति, तस्मादग्निसमारम्भोऽनेकसत्वव्यापत्तिहेतुत्वान्न कार्य इति द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्याता, तथाऽत्रापि सप्तमी प्रथमार्थे द्रष्टव्या, ततोऽयमर्थ:-अर्थानामवन KESARKARI दीप अनुक्रम ~73
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy