________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १
अध्ययनं -1, नियुक्ति: [३], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
दीप
ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् रैतरापेक्षणाच, यदि हि चक्षुरपाप्यकारि भवेत् तदा आवरणभावादनुपलब्धि-Il
रन्ययोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूद्रव्यप्रतिघातादुपपत्तिमान् तथा| द्रव्यापातः, अतिदूरे च गमनाभावादिति, प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणमप्राप्यकारित्वात् , मनोवत् , तदेतदयु-18
कतरं, दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, ततो यथा मनोज्याप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वानियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वात् योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति, अपिच-दृष्टमप्रा-18 प्यकारित्वेऽपि तथास्वभावविशेषात् योग्यदेशापेक्षणं, यथा अयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽपाप्यकर्षणे प्रवर्त्तमानः सर्वस्याप्ययसो जगदर्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, अथ मन्येथा अयस्कान्तोऽपि प्राप्यकारी, अय-17 |स्कान्तच्छायाणुभिः समाकृष्यमाणवस्तुनः सम्बन्धभावात् , केवलं ते छायाणवः सूक्ष्मत्वानोपलभ्यन्ते, तदेतदुन्मत्त-11 प्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हि तत्र छायाणुसम्भवग्राहक प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शकुमः, अधास्ति तग्राहकं प्रमाणमनुमान, इह यदाकर्षणं तसंसर्गपूर्वकं यथाऽयोगोलकस्य संदंशेन, आकर्षणं चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्तेन संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदेतद्वालिशजस्पितं, हेतोरनै कान्तिकत्वात्, मन्त्रेण व्यभिचारात, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, नच तत्र कोऽपि संसगे इति ॥ अन्यस्त्वाह-अस्ति पापः प्राप्यकारित्वेऽव्यवहितार्थानुपलब्धिरनुमान, तदप्वयुकं, अनापि हेतोरने कान्तिकत्वात् , काचा
अनुक्रम
JanEducaon ima
~71