________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १
अध्ययनं -1, नियुक्ति: [३], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
H
ACE
दीप
उपोद्घातेन्द चत्कृतानुग्रहोपघातभार भवति, तथा चक्षुर्मनसी अपि भवेतां, न च भवतस्तस्मादप्राप्यकारिणी ते इति, ननु दृश्येते चक्षुषोड
चक्षुपोऽनुग्रहोपघाती, तथाहि-जरठकरप्रसरमभिसर्पयन्तमंशुमालिनं चिरं विलोकमानस्य भवति चक्षुषो विधातः, शशा- प्राप्य॥२४॥
करनिकर तरङ्गमालोपशोभितं जलं शाडुलतरुमण्डलं वाऽवलोकमानस्यानुग्रहः, तदेतज्जायविलसितं, यतो न वयं 8 कारिता ब्रूमः सर्वथा चक्षुषोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्तं चक्षुर्ग्रहातीत्येवाभिदध्महे, विषयकृतानुग्रहोपघातासम्भवेऽपि तत्परिच्छेदभावात् , प्राप्तेन सूपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि
प्रसरमुपाददते, नात्र विसंवादः, ततस्ते चक्षुः सम्प्राप्ताः सन्तः स्पर्शनेन्द्रियमिव चक्षुरप्युपतन्ति, शीतांशुरश्मयस्तु स्वभावत द एव शीतलत्वादनुग्राहकाः ततस्ते चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्घल जलावलोकेन च जलकणसम्पृकसमीरणावयवसंस्प
शतोऽनुग्रहः, शाडुलतरुमण्डलावलोकनेऽपि शाडलतरुच्छायासम्पर्कशीतीभूतसमीरसंस्पर्शात् , शेषकालं तु जलाद्यवलोकनेऽनुग्रहाभिमान उपघाताभावादवसेयः, भवति चोपघाताभावेऽनुग्रहाभिमानो, यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य | यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यम् , अन्यथा सम्पर्के यथा सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्ति !, अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतं रजोमलाञ्जनादि किं न पश्यति !, तस्मादप्राध्यकार्येव चक्षुः, ननु यदि चक्षुरप्राप्यकारि तर्हि कस्मादविशेषेण सर्वानप्यर्थान् न ॥२४॥ गृह्णाति, यदि हि प्राप्त परिच्छिन्द्यात् तर्हि यदेवानावृतमदूरदेश वा तदेव गृह्णीयात् नावृतं दूरदेशस्थं वा, तत्र नयनरश्मीनां । गमनासम्भवात् सम्पाभावात्, ततो युज्येत चक्षुषो ग्रहणाग्रहणे नान्यथा, तथा चोकम्-"प्राप्यकारि चक्षुः उपल
HERE
अनुक्रम
in Edu
~70~