________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं -1, नियुक्ति: [२], भाष्यं [-1, विभागाथा [१८२,१८४,२९१], मूलं /-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
दीप
आह च भाष्यकृत्-"भूयाभूयविसेसादाणच्चायाभिमुहमीहा। (वि.१८४) अन्ये तु संशयमात्रमीहामुपवर्णयन्ति, तदसम्यक्, संशयो ह्यज्ञानं, मतिज्ञानांशश्च ईहा, तत्कथमेषा संशयमानं भवितुमर्हति ? उक्तं च-"ईहा संसयमेत केई न तयं तओ जमन्नाणं । मईनासो चेहा कहमन्नाणं तई जुत्तं?॥१॥"(वि.१८२) तथा तस्यैव अवगृहीतस्य ईहितस्य चार्थस्य निर्णयरूपोऽध्यवसायोऽवायः,शाङ्क्ष एवायं शाह एवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययोऽवाय इति भावः,चशब्दः पृथक् अवग्रहादि-161 स्वरूपस्वातन्यप्रदर्शनार्थः,अवग्रहादीनामीहादयः पर्याया न भवन्तीति तदर्थख्यापनार्थ इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च विधा-अविच्युतिर्वासना स्मृतिश्च, तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा, ततस्तया
आहितो यः संस्कारः स वासना, सा च सयेयमसङ्खयेयं वा कालं यावद् भवति, सयवर्षायुषां सधेयं कालमसवेववर्षा-6 दियुषामसवयेयं कालमिति भावार्थः, ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिकात् कारणात् संस्कारस्य प्रवोधे यद् ज्ञानमुदयते
तदेवेदं यन्मया प्रागुपलब्धमित्यादिरूपा सा स्मृतिः, उक्तं च-"तदनन्तरं तदत्याविचवणं जो उ वासणाजोगो । कालन्तरेण जो पुणरणुसरणं धारणा सा उ ॥१॥"(वि.२९१)एताश्चाविच्युतिवासनास्मृतयो धरणलक्षणसामान्यान्वर्थयोगाद्धारणाशब्दवाच्याः, एवंशब्दः क्रमप्रदर्शना, आपत्वाच्च मकारलोपः, एवं-अनेनैव क्रमेण, तथाहि-नानवगृहीतमीह्यते न चानीहितमवगम्यते न चानवगतं धार्यत इति, चत्वारि आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदाः विकल्पा अंशा इत्यनान्तरं ।
त एव वस्तूनि भेदवस्तूनि, वास्तवा भेदा इति भावः, समासेन-सङ्केपेण, नतु विस्तरता, विस्तरतोऽष्टाविंशत्यादिभेदभा-18 सवात्, अथवा काका नीयते-एवं भवन्ति चत्वार्याभिनिवोधिकज्ञानस्य भेदत्रस्तूनि?, समासेन, न तु विस्तरत इति ।।
अनुक्रम
in Edu
~67~