________________
आगम
(४०)
प्रत सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [–], निर्युक्तिः [२], भाष्यं [ - ], वि०भा० गाथा [१६९ ], मूलं [- / गाथापूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
॥ २२ ॥
उपोद्घाते ४ इति न्यायात् ज्ञानपञ्चकादावुद्दिष्टस्याभिनिवोधिकज्ञानस्य स्वरूपमभिधीयते तच्चाभिनित्रोधिकज्ञानं द्विधा - श्रुतनिश्रिमैं तमश्रुतनिश्रितं च तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते तत् श्रुतनिश्रितम्अवग्रहादि यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशम भावत एवमेव यथावस्थितवस्तुसंस्पर्श मतिज्ञानमु ५ पजायते तदश्रुतनिश्रितम् - औत्पत्तिक्यादि, आह भाष्यकृत - "पुढं सुयपरिकम्मियमइस्स जं संपयं सुयातीतं । तन्निस्सिय* मियरं पुण अणिस्सियं मइचउक्कं तं ॥ १॥ (वि. १६९) नन्वौत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव ततः कोऽनयोः प्रतिविशेषः ?, उच्यते, तदप्यवग्रहादिरूपमेव केवलं शास्त्रानुसारमन्तरेणोपजायत इति भेदेनोपन्यस्तं, ननु 'तिवग्गसुत्तस्थगहियपे | याला' इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति ?, सत्यमेतत्, वैनयिकीं विहाय अश्रुतनिश्रितं प्रतिपत्तव्यं यस्तु वैनयिक्या अश्रुतनिश्रितेषु नन्द्यध्ययने निर्युक्तौ वा पाठः स बुद्धिसाम्यादिति कृतं प्रसङ्गेन ॥ तत्र श्रुतनिश्रिताभिनिवोधिकज्ञानस्वरूपप्रदर्शनार्थमाह
"उग्गहो ईह अवातो य धारणा एवं होति चत्तारि । आभिणिवो दियनाणस्स भेयवत्थू समासेणं ॥ २ ॥" अवग्रहणमवग्रहः, अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह नन्यध्ययनचूर्णिकृत् -"सामन्नस्स रूवादिविसेस| रहियस्स अनिद्देस्सस्स अवग्गहणमवग्गह" इति, तथा ईहनमी हा सद्भूतार्थ पर्यालोचनरूपा चेष्टा 'ईहि चेष्टायामिति वचनात्, किमुक्तं भवति ? - अवग्रहादुत्तरकालमपायात् पूर्वे सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः | प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधम्र्मा दृश्यन्ते न खरककर्कश निष्ठुरता दयः शार्ङ्गादिशब्दधर्म्मा इत्येवंरूपो मतिविशेष ईहा,
... अत्र मतिज्ञानस्य 'अवग्रह' आदि भेदा: वर्णयन्ते
For Private & Personal Use Only
~66~
मतिभेदः गा. २
॥ २२ ॥