________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं -, नियुक्ति: [१], भाष्यं [-], विभा गाथा [१००,१०३], मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
दीप
|मादीनां शब्दानामन्त ल्पाकाररूपाणां विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् , उक्तंच-"ईदियमणोनिमित्त विक्षाणा सुयाणुसारेणं। निययत्थोत्तिसमत्थं तं भावसुयं मई सेसं॥१॥"(वि.१००)अत्र 'सुयाणुसारेणीति शब्दार्थपोलोचनानुसारेण। शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टस्यार्थस्य प्रतिपत्तिः, केवलं एकेन्द्रियाणामव्यक्तमेव,
किञ्च-नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरःसरीकारेण शब्दसंसृष्टार्थग्रहणमवसेयं, अन्यथा आतिहारादिसंज्ञानुपपत्तेः,यदप्युच्यते यद्येवलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यत
इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यक् प्रवचनापरिज्ञानात्, तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धि| विकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचेंदियोब बउलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषाश्नोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथा आहारादिसंज्ञानुपपत्तेः, आह च भाष्यकृत्-"जह सुहुमं भावेंदियनाणं दबिंदियावरोहेवि। तह दबसुयाभावे भावसुयं पत्थिवाईणं॥।॥वि.१०३) ततः समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभेदाझेदः । तथा हेतुफलभेदात् , तथाहि-मतिः कारणं, मत्या प्राप्यमाणत्वात् , श्रुतं तु | कार्य, न खलु मतिपाटवमन्तरण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तयाऽदर्शनात्, यश्च यदुत्कर्षापकःवशादुत्कर्षापकर्ष-16 भाक् तत्तस्य कारण, यथा घटस्य मृत्पिण्डः,मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापकर्षों ततः कारण मतिः श्रुतस्य,इतश्च कारणमित्या श्रुतस्य पाल्यमानत्वात् , पालनं नाम अवस्थितिकरणं, कथं अवस्थितिकरणं मत्या श्रुतज्ञानस्येति चेत्, उच्यते, 12 इह दर्ल श्रुतस्य मतिर्यथा घटस्य मृतू, धाहि-श्रुतेष्वपि बहुषु (ग्रन्थेषु) यद्विषयं स्मरणमीहापोहादि अधिकतरं स ग्रन्थः स्फुट ४
अनुक्रम
4-5645625256456
~634