________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
I
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [–], निर्युक्तिः [१], भाष्यं [ - ], वि०भा०गाथा [-], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
तद्भेदात् ज्ञानस्यापि पञ्चधा भेद उद्गीर्येत, अथ स्वभावत एवाभिनियोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमर्हति न खलु किमिह दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवतः शेमुषी, ननु यदि स्वभावत एवाभिनिंबोधिकादिको ज्ञानस्य भेदस्तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः तथाहि - ज्ञानमात्मनो धर्मस्तस्य चाभिनिबोधिकादिको भेदः स्वभावत एव व्यवस्थितस्ततः क्षीणावरणस्यापि तद्भावप्रसङ्गः सति च तद्भावे|ऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापन्नं, आमिनिबोधिकादिभिर्ज्ञानैर्वस्तुपरिच्छेदात्, केवलज्ञानभावतः समस्तवस्तु| परिच्छेदानासर्वज्ञत्वमिति चेत्, ननु यदा केवलज्ञानोपयोगसम्भवस्तदा भवतु सर्वज्ञत्वं, यदा त्वाभिनिबोधिकादिज्ञानोपयोगस्तदा देशतः परिच्छेदादस्मादृशस्येव बलादसर्वज्ञत्वमापद्यते, न च वाच्यं तस्य तदुपयोग एव न भवति, आत्मस्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानानन्तरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले वासर्वज्ञत्वमेव, तच्च विरुद्धमिति, आह च- "नत्तेगसहावत्ते आभिनिवोधाइ किंकओ मेओ । नेयविसेसाओ चे न सबविसयं जतो चरिमं ॥ १ ॥ अह पडिवत्तिविसेसा नेगंमि अणेगभे यभावातो । आवरणविभेयओऽविहु सभावभेयं विणा न भवे ॥ २ ॥ तम्मि य सइ सबेसिं खीणावरणस्स पावई भावो । तद्धम्मत्ताओच्चिय जुत्तिविरोहो स चाणिट्ठो ॥ ३ ॥ अरहावि असवण्णू आभिणिबोहाइभावतो नियमा । केवलभावाओ | चे सद्दण्णू नणु विरुद्धमिणं ॥ ४ ॥” (धर्मसंग्रहणी) तस्मादिदमेव युक्तियुक्तं पश्यामो यदुत अवग्रहज्ञानादारभ्य यावदुत्कप्रातं परमावधिज्ञानं तावत् सकलमप्येकं तच्चासकलसंज्ञितमशेषवस्तु विष यत्वाभावात्, अपरं च केवलिनः तच
For Private & Personal Use Only
~57~