SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १ अध्ययनं -1, नियुक्ति: [१], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत केवळे शेपामाव: | आवरणभेदे हेतुश्च सूत्रांक १७ दीप सरणात्, सूत्रं चेद-नाणं पंचविहं पत्नत्तं, तंजहा-आमिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाण'मिति, ननु सकलमपीदं ज्ञानं ज्ञायेकस्वभावं, ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधिकादिको भेदः, जयभेदकृत इति चेत्, तथाहि-वार्त्तमानिकं वस्त्वाभिनिबोधिकज्ञानस्य विषयः त्रिकालसाधारणसमानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य रूपिद्रव्याण्यवधिज्ञानस्य मनोद्रव्याणि मनःपर्यायज्ञानस्य समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदसमीचीनं, एवं सति केवलज्ञानस्य भेदवाहुल्यप्रसक्तेः, तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिवोधिकादिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात् , अविषयत्वात् , तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिवोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात् , न चैतदिष्टमिति, अथोच्येत-प्रतिपत्तिप्रकारभेदत अभिनिबोधिकादिभेदः, तथाहिन यादृशी प्रतिपत्तिराभिनिवोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्तु अन्याहशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यं, ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तं, एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्तेः, तथाहि-तत्तद्देशकालस्वरूपभेदेन विविच्यमानमें कैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते, तन्नेषोऽपि पक्षः श्रेयान, स्यादेतद्-अस्त्यावारकं कर्म तत्त्वनेकप्रकारं ततस्तझेदात्तदावार्य ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् , ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीवायुक्तिसङ्गत, यतः आवार्यापेक्षं ह्यावारकमत आवार्यभेदा-| देव तद, नतु तन्नेदादावार्यभेदः, आवार्य च शतिरूपापेक्षया सकलमप्येकं, ततः कथमावारकस्य पश्चरूपता येन अनुक्रम SAMRAAS ~56~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy