SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १ अध्ययनं -1, नियुक्ति: [१], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक दीप समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा २ देशतोऽभिव्यक्तिरुपजायते, सा च कचित् कदाचित्कथञ्चि-18 भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकदक्षपारमार्थिकस्वरूपस्याप्यावरणमलपटतिरोहितस्वरूपस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतस्तस्य विज्ञप्तिरुज्जृम्भते, सा क्वचित् कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च-"मलविद्धमणेर्व्यक्तिर्यथाऽनेकपकारतः। कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥१॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशशक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निम्शेषावरणप्रहाणादशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, तथा चोक्तम्-"यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तदात्मनः॥१॥" ततो मत्यादिनिरपेक्ष केवलज्ञानं, अथवा शुद्धं केवलं तदावरणमलकलङ्कस्यानवयवशोऽपगमात्, सकलं वा केवलं प्रथ81 मत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तहै। त्वात्, केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशेषभूतभवनाविभावस्वभावावभासिज्ञानमिति भाषा, शब्दो मनःपर्ययज्ञानेन सहास्याप्रमत्तयतिभावादिना साधर्म्यप्रदर्शनार्थः, तथाहि-यथा मनःपर्यवज्ञानमप्रमत्तयतेरवोदहीयते तथा केवलज्ञानमपीत्यप्रमत्तयतिसाधर्म्य, तथा यथा मनःपर्यायज्ञानं न विपर्ययमासादयति तथा केवलज्ञानमपीति विपर्ययाभावसाधर्म्य, 'पश्चमक'मिति पश्चममेव पञ्चमकं प्राकृतत्वात् स्वार्थे कप्रत्ययः, पचमता चास्य सूत्रक्रमप्रामाण्यानु अनुक्रम JanEducation inaNP ... केवलज्ञानस्य विशिष्ट-वर्णनं ~55~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy