________________
आगम
(४०)
[भाग-3] “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं -1, नियुक्ति: [१], भाष्यं -1, विभा गाथा [९५], मूलं - /गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
दीप
श्रोत्रादीन्द्रियाश्रित ज्ञान परमार्थतः प्रत्यक्षं तत्कथमवग्रहादयः परोक्षत्वेनामेऽभिहिता, तस्मादुत्सरनेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते प्रागिन्द्रियाश्रितं ज्ञान संव्यवहारतः प्रत्यक्षमुक्तं, न परमार्थतः, आईच भाष्यकृत"एगन्तेण परोक्खं लिंगियमोहाइयं च पञ्चक्खं । इंदियमणोभव जंतं संववहारपञ्चर्ख ॥१॥"(भा० ९५) इति । तथा अवशब्दोऽधःशब्दार्थः अव-अधोऽधो विस्तृत वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिः-मर्यादा | रुपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, यद्वा अवधान-आत्मनोऽर्थसाक्षात्करणव्या
पारोऽवधिः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वयेन सहास्य स्थित्यादिभिः साधर्म्यप्रदर्श|नार्थः, तथाहि-यावानेव मतिश्रुतयोरनन्तरमुक्त प्रवाहापेक्षया अप्रतिपतितैकसरवाधारापेक्षया वा स्थितिकालस्तावानेवाव
धिज्ञानवापीति स्थितिसाधर्म्य, तथा यथैव मतिश्रुते मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथाऽवधिज्ञानमपि, है तथाहि-मिथ्यादृष्टस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्तं च-'आद्यत्रयमज्ञान
मपि भवति मिथ्यात्वसंयक्त"मिति (प्रश.) विपर्ययसाधर्म्य, तथा य एवं मतिश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि, तथाहि-विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनायाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भव इति लाभसाधये । तथा परि-सर्वतो भावे, अवनमवः, 'तुदादिभ्यो नक्की' इत्यधिकारे 'अकितो वे'त्यनेन औणादिकोऽकारप्रत्ययः, अवन गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्ययो मनःपर्यवः-सर्वतो मनोव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः भावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः-सर्वतस्तत्परिच्छेद ।
अनुक्रम
... प्रत्यक्षज्ञानस्य त्रया: भेदा: - अवधि, मन:पर्याय, केवलज्ञान
~53