________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [–], निर्युक्तिः [१], भाष्यं [ - ], वि०भा० गाथा [-], मूलं [- /गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घाते
॥ १५ ॥
विचारिते अवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसाद्गुण्यावधारणमवसेयं, यदपि चोकम् – 'न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यमिति, तदप्ययुकम् दृष्टान्तदान्तिकयोर्वैषम्याद्, भोक्ता हि भुजिक्रियानुभवभागी भव्यते, भुजिक्रियानुभवश्च देवदत्तस्य न हस्तेन व्यवधीयते, किन्तु साक्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते, न परिच्छेद क्रियायामिन्द्रियमिवाहारक्रियानुभवेऽपि येन व्यवधानं भवेत्, ततो देवदत्तः साक्षाद्भोक्तेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्तनीत्या चक्षुरादीन्द्रियसाद्गुण्यात्रगमानुसारेणोपजायते | ततो व्यवधानात् न साक्षादुपलम्भक आत्मेति । नम्बिदं सर्वमूत्सूत्रप्ररूपणं मन्यध्ययनसूत्रे हि इन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं तथा च तद्ग्रन्थः- “पञ्चक्खं दुरिहं पन्नत्तं, तंजहा - इंदियपच्चक्खं नोइंदियपच्चक्खं चेति, सत्यमेतत्, किन्त्विदं लोकव्यवहारमपेक्ष्योक्तं न परमार्थतः तथाहि - यदिन्द्रियाश्रितमपर व्यवधान रहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति व्यवस्थितं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्त्तनात् यत्पुनरिन्द्रियव्यापारेऽप्यपरं घूमादिकमपेक्ष्याम्यादिविषयं ज्ञानमुद्यते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवाद्, यत्पुनरात्मन इन्द्रियमध्यनपेक्ष्य | साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं तच्चावध्यादिकं त्रिप्रकारं, ततः संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं न परमार्थतः अथ कथमेतदवसीयते - संख्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं न परमार्थतः १, उच्यते, तत्रैवोत्तरसूत्रार्थपर्यालोचनात्, तथाहि - प्रत्यक्षभेदाभिधानानन्तरं तत्र सूत्रं - "परोक्खं दुविहं पज्ञत्तं, तंजा - आभिणिबोहियनार्ण सुयनाणमित्यादि, तत्र आभिनिबोधिकमवग्रहादिरूपमवग्रहादयश्च श्रोत्रेन्द्रियाद्याश्रितास्तत्र वर्णिताः, तद्यदि
For Private & Personal Use Only
~52~
K
ऐन्द्रिय
कस्य
परोक्षता
॥ १५ ॥